________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
आकृष्टग्विषव्यालकरालकरवालभृत् । जवाद्दधाव तत्पृष्ठे निष्ठेयं वीरमानिनाम् ॥१५६॥ युग्मम् । तडिद्दण्ड इवोद्दण्डवेगतः स गतः कियत् । कीरेणाद्भुततवृत्तविस्मितेनेत्यजल्प्यत ॥१५७॥ किं कुमार ! मुधा मौग्ध्याद्विदग्धोऽप्यनुधावसि ? । स तपस्विकुमारः क्व ? क्व वातः पुरतश्च सः ? ॥१५८॥ कृतान्तवज्जीवितव्यं तं महर्षि महाबलः । अपहृत्य कृतार्थः सन् को वेद क्व कथं ययौ ॥१५९।। इयता च योजनानां स लक्षाण्यप्यसङ्ख्यशः । कुमार ! दूरेऽन्तरधात् तन्निवतस्व सत्वरम् ॥१६०॥ ततो निष्फलसंरंभारंभाद् बिभ्रदपत्रपाम् । पश्चात्प्रापद् व्यलापीच्च कुमारः खेदमेदुरः ॥१६१॥ हा गन्धवाह ! किं दावहव्यवाहायितं त्वया । यन्मम प्रेमसर्वस्वं मुनिमेनमपाहरः ॥१६२॥ हा मुनीन्द्र ! कुमारेन्द्र ! वकाचन्द्रान्मदीयके । प्रोन्निद्रतां प्रपत्स्येते नेत्रे नीलोत्पले कदा ? ॥१६३॥ हा स्निग्धमुग्धमधुरा दृग्विलासा: सुधोर्मयः । सौमनस्यपुषस्तेऽपि कथं प्राप्याः ? पुनर्मया ॥१६४॥ जितामृतानि ही तानि भाषितानि मुहुर्महुः । कल्पद्रुकुसुमानीव कथं लब्धाऽस्मि ? रङ्कवत् ॥१६५॥ एवं विलापान् विविधान् कुर्वन् कान्तावियुक्तवत् । कुमारः कीरराजेन जजल्पे कल्पितेतरत् ॥१६६॥ नूनं स तापसपुमान् स कश्चित् किंतु केनचित् । स्वशक्तितश्छन्नरूपमन्यत्किञ्चिद्विचार्यताम् ॥१६७॥ तैस्तैर्विकारैराकारैः प्रकारैश्च सदुक्तिजैः । प्रेक्षणैर्लक्षणैश्चैनं जाने काञ्चन कन्यकाम् ॥१६८॥
३३४