________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
तदुक्तं-शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षितौ भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य वान्यमनुजं दुःखादितं यन्मनस्ताद्रूप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पञ्चषाः ॥१४४॥ अबलानामनाथानां दीनानामथ दुःखिनाम् । परैश्च परिभूतानां त्राता कः ? सत्तमात्परः ॥१४५॥ यथावत्कथयिष्यामि कुमार ! त्वत्पुरस्ततः । गोप्यं निर्दम्भविश्रम्भसंरंभैकपदे नु किम् ? ॥१४६॥ अत्रान्तरे महोत्पातदुर्वात इव दुस्सहः । मत्तेभ इव मूलेभ्योऽप्युच्चैः प्रोन्मूलयन् वनम् ॥१४७॥ उच्छलधूलिपटलैः कुर्वन्नविरलैरलम् । जगत्त्रयीमपि स्फूर्जvमाद्वैतमयीमिव ॥१४८॥ घुघुत्कारमहाघोरविरावैरतिदुःश्रवैः । अपि दिग्वारणेन्द्राणां कुर्वाणः श्रवणे ज्वरम् ॥१४९॥ तपस्विनः स्ववृत्तान्तकथनैकमनोरथम् । रथं प्रति यथार्था प्रभञ्जनेत्यभिधां भजन् ॥१५०॥ आकस्मिकमहासिन्धुनीरपूर इवाखिलम् । प्लावयन् पवनः प्रोच्चैर्वातुं प्रववृतेतराम् ॥१५१॥ पञ्चभिः कुलकम् । धूल्या दृशोर्मन्त्रमुद्रां दत्त्वा कीरकुमारयोः । समीर: सिद्धचौरस्तमपजहे तपोनिधिम् ॥१५२॥ हा हा विश्वजनाधार ! वराकार ! कुमार ! हा ! । हा विश्वस्वान्तविश्राम ! सत्पराक्रमधाम ! हा ॥१५३॥ रक्ष रक्ष जगद्रक्षादक्ष ! दुर्वैशसादितः । प्रलापः केवलं ताभ्यां तदेत्यश्रावि दुःश्रवः ॥१५४॥ युग्मम् । हृत्वा कुत्र प्रयाताऽसि रे मज्जीवितजीवितम् । इत्युच्चैविब्रुवन् क्रोधाद्योधुकामः कुमारराट् ॥१५५॥
३३३