________________
प्रथमः
प्रकाशः
३३२
अश्वोऽप्यश्वोचितैः कृत्यैर्दातव्यैश्च गतश्रमः । ऋषिणा प्रीणयामाहे ( ? ) महान्तो नौचितीमुचः ॥ १३१ ॥ अथ कीरः कुमारस्य सम्यग् भावं विभावयन् । चक्रे पृच्छामतुच्छात्मा सप्रीति प्रतितापसं ॥१३२॥ महर्षे ! प्रस्फुरल्लोमहर्षेऽस्मिन् नवयौवने । ईदृक्षेऽपि किमीदृक्षं तवासंभावितं व्रतम् ॥१३३॥ क्वायं सारस्तवाकारः प्राकारः सर्वसंपदाम् । क्व संसारतिरस्कारकारीदं दुष्करं व्रतम् ॥१३४॥ अस्याश्चातुर्यसौन्दर्यसंपदोऽप्यादितः कुतः । अरण्ये मालतीपुष्पस्येव निष्फलता कृता ॥ १३५ ॥ दिव्यालङ्कृतवेषार्हं मृद्वङ्गं पद्मतोऽप्यदः । कथं नु सहते हन्त भृशकर्कशवल्कलम् ॥१३६॥ द्रष्टृदृष्टिमृगीपाशः केशपाशः सुकोमलः । नैवोत्कटजटाबन्धसम्बन्धमयमीहते ॥ १३७ ॥ एतच्च चारुतारुण्यं पुण्यं लावण्यमप्यदः । नव्यभोगफलैः शून्यं कारुण्यं कुरुतेऽद्य नः ॥१३८॥ ततः किमङ्गवैराग्यात् किं वा कपटपाटवात् । यद्वा दैववशाद्यद्वा दुर्दैवाद्यभियोगतः ॥१३९॥ महातपस्विना केनाप्यथवा शापदानतः । प्रपेदिषे वद कुतस्तपस्विन् ! दुस्तपं तपः ॥ १४० ॥ सन्दानितकम् । अथातुलगलन्नेत्रजलैरविरलैर्व्रती । वमन्निवान्तरं दुःखं स जगाद सगद्गदम् ॥१४१॥
भोः कीरेन्द्र ! कुमारेन्द्र ! को विश्वेऽप्यस्तु वां समः । ययोर्मयि कृपापात्रे कृपा ह्येवं विजृम्भते ॥१४२॥ स्वदुःखे स्वीयदुःखे वा दृश्यन्ते के न दुःखिनः ? । त्रैधेऽपि जगति द्वित्राः परदुःखे तु दुखिनः ॥१४३॥
श्राद्धविधिप्रकरणम्