________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
तथैव कर्तुकामः प्राक् प्रेरितः शकुनैरिव । इति तद्वचनैरश्वादुत्ततार कुमारराट् ॥१०५॥ मनसा प्राक् तदानीं तु वपुषापि सुखाकृता । प्रीते संयुयुजाते तो जन्मतः सुहृदाविव ॥१०६॥ मिथः प्रीतिस्थिरीकारव्यभिचाराय किन्तु तौ । किञ्चिद्विचेरतुस्तत्र परस्परकरार्पिणौ ॥१०७॥ प्रीत्या मिथः करस्पर्शकारिणौ चित्तहारिणौ । कलभौ शुशुभाते तो काननान्तर्विहारिणौ ॥१०८॥ तस्मै गिरिसरित्पद्माकरक्रीडास्पदादिकम् । स्वं सर्वस्वमिवाटव्यां तापसः शंसति स्म सः ॥१०९॥ सोऽपूर्वाश्च तरून् काश्चिन् फलपुष्पद्धिभिर्गुरून् । गुरूनिव निजांस्तस्मै नामादेशमुपादिशत् ॥११०॥ ततः श्रमापनोदाय विनोदाय च पल्वले । स्नानं चकार करिवत् कुमारः स ऋषेगिरा ॥१११॥ तत सौस्नातिकीभूय कुमाराय समानयत् । ऋषिः पक्वा अपक्वाश्च द्राक्षाः साक्षात्सुधा इव ॥११२॥ पक्वान्याम्राणि कम्राणि यानि प्रेक्ष्यापि चक्षुषा । क्षिप्रं कम्प्राणि जायन्ते चेतांसि वतिनामपि ॥११३॥ फलानि नालिकेरीणां कदलीनां च नैकशः । पक्वक्षुधाकरिणाञ्च खजूरीणां च भूरिशः ॥११४॥ राजादनानि स्वादुत्वसदनानि घनानि च । पचेलिमानि च क्षीरामलकान्यप्यनेकशः ॥११५॥ स्निग्धान्तश्चारकुलिकाकुलाश्चारफलावली: । प्रस्फुरच्चारुबीजानि चारुबीजफलानि च ॥११६॥ साधुमाधुर्यपूराणि बीजपूराणि भूरिशः । नारङ्गाणि सुरङ्गाणि दाडिमान्यसमानि च ॥११७॥
३३०