________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
तस्य रूपोक्तिलालित्यमोहितात्मा महेभ्यभूः । सर्वत्रानुत्तरत्वान्नु यावन्नैवोत्तरं ददौ ॥१२॥ उच्चैरुवाच वाचाल इव तावत्स कीरराट् । सर्वावसरवित् प्राप्यावसरं किं विलम्बते ? ॥१३॥ भो महर्षिकुमारेन्द्र ! कुमारस्य कुलादिना । कोऽर्थो न ह्यधुनारब्धं कर्म वैवाहिकं त्वया ॥१४॥ औचित्यकृत्यं त्वौचित्यचतुरस्यापि वच्मि ते । सर्वथाऽप्यतिथिः पूज्यः सर्वेषां व्रतिनामपि ॥१५॥ उक्तञ्च लौकिकै:गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वस्याऽभ्यागतो गुरुः ॥१६॥ तत्तश्चेत्ते कुमारेन्द्रायत्तं चित्तं तदा मुदा । प्रथीयः प्रथयातिथ्यं विचारैरपरैरलम् ॥१७॥ इत्युक्तिचातुरीतुष्टः कण्ठे कीरस्य तापसः । मणिस्रजमिवाक्षेपाच्चिक्षेपाऽब्जस्त्रजं निजाम् ॥१८॥ व्याहरच्च कुमारेन्द्र ! विश्वश्लाघ्यस्त्वमेव हि । यस्यैवं चतुरोत्तंसः कीरोऽपि चतुरोक्तिषु ॥१९॥ द्रुतमुत्तर सौभाग्यैरनुत्तरतुरङ्गमात् । अतिथीभव भावज्ञ ! चरितार्थी कुरुष्व नः ॥१०॥ इदं पल्वलमुत्फुल्लकमलं निर्मलं जलैः । वनखण्डोऽप्यखण्डोऽयं त्वद्वशा वयमप्यथ ॥१०१॥ तपस्विनाऽत्र ते कीदृश्यातिथेयी मया भवेत् । नग्नक्षपणकस्थाने भूजानेर्भक्तिरस्तु का ? ॥१०२॥ तथापि ते यथाशक्ति भक्ति कामपि दर्शये । स्वच्छायया करीरोऽपि न किं विश्रामकृत् क्वचित् ॥१०३।। सद्यः प्रसद्य विज्ञप्ति प्रपद्यस्व तदद्य नः । न सन्तः पथिकाः क्वापि प्रार्थनाव्यर्थनापथे ॥१०४॥
३२९