________________
प्रथमः
प्रकाशः
३२८
तस्यां पुरः प्रयानेकं स तापसकुमारकम् । दोलाधिरूढं पातालकुमारमिव भूमिगम् ॥७९॥ स्निग्धबन्धुमिव स्निग्धदृशं दर्शनमात्रतः । ददर्श दर्शनीयानामवधिं स्निग्धया दृशा ॥८०॥ युग्मम् ॥ स तापसकुमारोऽपि कुमारं माररूपिणम् । वरं कन्येव वीक्ष्याऽभूद् व्रीडौत्सुक्यमुदादिभाक् ॥८१॥ तैस्तैर्विकारैर्विधुरोऽप्यवष्टभ्य स धृष्टताम् । आर्यः कथञ्चिदुत्तीर्य दोलातः प्रजल्प तम् ॥८२॥ विश्ववल्लभ ! सौभाग्यनिधे ! दृष्टौ निधेहि नः । धेहि स्थैर्यं प्रसादं नो विधेहि अभिधेहि च ॥८३॥ को नाम विषयः श्लाघाविषयः क्रियते त्वया । स्ववासकरणात्किं वा पुरं विश्वेऽप्यनुत्तरम् ॥८४॥ उत्सवैराकुलं किं वा कुलं यस्मिन्नवातरः । का जातिर्जातिवल्लेभे सौरभ्यं सङ्गतेस्तव ॥ ८५ ॥ त्रैलोक्यानन्दजनकं जनकं तव कं स्तुमः । जननी माननीयानां माननीया च का त्वया ॥ ८६ ॥ स्वजनाः के जनानन्ददायिनः सज्जना इव । स्वाजन्यं मन्यसे यैस्त्वं समग्रसुभगाग्रणीः ॥८७॥ माहात्म्यधाम ! किं नाम येन त्वं हन्त कीर्त्त्यसे । को हेतुरिष्टसंयोगे केतुर्येनासि निःसखः ॥८८॥ परावगणनाहेतुः परा केयमपि त्वरा । किं वा प्रयोजनं प्रीतियोजनं यच्चिकीर्षसि ॥८९॥ तज्जल्पितं सुललितं तूणमाकर्णयन्निति । न केवलं कुमारोऽभूदुत्कर्णस्तुरगोऽपि सः ॥ ९० ॥ कुमारमनसा सार्द्धं तत्र तस्थौ च वाजिराट् । अश्ववारानुवृत्त्यैवाऽश्ववराणां हि चेष्टितम् ॥९१॥
श्राद्धविधिप्रकरणम्