________________
प्रथमः
प्रकाशः
३२७
कृतार्थमानी मानीति सोऽनुज्ञादानमात्रतः । निर्ययौ पञ्जरात् कीरः संसारादिव सन्मतिः ॥६६॥ यायावर: स पत्रीव पतत्त्री मिलितः क्षणात् । प्रेम्णाऽऽलाप्य कुमारेण निन्येऽङ्के लघुबन्धुवत् ॥६७॥ अश्वरत्नं नृरत्नाप्त्याऽखर्वगर्वमिवोद्व्रजन् । पुरस्यैव परिसरेऽमुञ्चन्मित्रतुरङ्गमान् ॥६८॥ अप्रज्ञा इव सप्रज्ञात्ते पश्चात्पतितास्ततः । आदावेव हतोत्साहास्तस्थुस्तत्रैव दुःस्थिताः ॥६९॥ अथोच्चैरुत्पतत्काय एव प्रायः प्रयानयम् । उर्वीमपि न पस्पर्श रजःस्पर्शभयादिव ॥७०॥ सरिगिरिवनोर्व्यादि कुमारस्याखिलं तदा । हयेशस्पर्द्धयेवोद्यत्प्रतिभाति स्म सर्वतः ॥ ७१ ॥ कौतुकोत्ककुमारान्तःकरणप्रेरणादिव । महीं क्रामन्नविश्रामं नामंस्त क्वापि स श्रमम् ॥७२॥ भूयः शबरसेनाभिर्भ्रमन्तीभिः सुभीषणाम् । प्राप्तः शबरसेनाह्वां स क्रमेण महाटवीम् ॥७३॥ नादैः कृतभयोन्मादैः श्वापदानां सुदुःसहैः । मुख्याटवीष्वहमिति या गर्वेणेव गर्जति ॥७४॥ मिथः करिहरिव्याघ्रवराहमहिषादयः । कुमारकौतुकायेव युध्यन्ते यत्र सर्वतः ॥ ७५ ॥ अपूर्ववस्तुलाभार्थी कौतुकार्थी च चेत्तदा । द्रागेहीति कुमारं याह्वयतीव शिवारवैः ॥ ७६ ॥ द्रुमा यत्राभितोऽप्यश्ववेगवत्ताचमत्कृताः । मूर्द्धानं धूनयन्तीव कम्प्रशाखाशिखामिषात् ॥७७॥ यस्यां शबर्यः किन्नर्य इव वर्यतरैः स्वरैः । कुमाररञ्जनायेव गायन्त्युद्भटगीतिकाः ॥ ७८ ॥
AAAAA
श्राद्धविधिप्रकरणम्