________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
स पञ्चमी गति शुक्लध्यानेनेवामुना पुनः । नीयमानः परान्सर्वान् सिद्धजीव इवामुचत् ॥५३॥ अत्रान्तरे श्रेष्ठ्यगारे कीरराट् पञ्जरस्थितः । अवधार्य कार्यसारं वसुसारं सुधीर्जगौ ॥५४॥ भ्राता तात ! ममेदानी रत्नसारकुमारराट् । तं तुरङ्गममारूढः प्रौढवेगः प्रयात्ययम् ॥५५॥ कौतूहलैकरसिकः कुमारश्चञ्चलाशयः । जङ्घालः प्रबलोत्फालः तुरङ्गश्च कुरङ्गवत् ॥५६॥ अतिविद्युद्विलसितं विधेविलसितं पुनः । न जानीमः परिणामः कार्यस्यार्य ! कथं त्विति ॥५७॥ भाग्यैकसिन्धोर्मबन्धोर्न यद्यप्यशुभं क्वचित् । तदप्यनिष्टाशङ्कीनि स्वान्तानि स्नेहलात्मनाम् ॥५८॥ याति यत्रापि पञ्चास्यः स्यात्तत्रापि प्रभुत्वभाक् । सिंही तदपि ही सूनोरनिष्टाशयार्तिभृत् ॥५९॥ सत्यप्येवं यथाशक्ति प्राग्यनकरणं वरम् । पालिबन्धस्तडागेऽपि सज्ज एव सुयौक्तिकः ॥६०॥ तत्तात ! तावकीनः स्याद्यद्यादेशस्तदा द्रुतम् । यामि स्वामिन् ! कुमारस्य शुद्धिहेतोः पदातिवत् ॥६१॥ कदाचिद्विषमायां च दशायां दैवयोगतः । स्यां सखापि कुमारस्य सुखकृद्वचनादिना ॥६२॥ एवं स्वस्वान्तसंवादिवादिनं वदति स्म तम् । हृष्टः श्रेष्ठी शुकश्रेष्ठ ! साधु साधु त्वयोदितम् ॥६३॥ गच्छ गच्छतरां स्वच्छमतेऽतुच्छगतेढुंतम् । वत्स ! वत्सस्य भूयास्त्वं सहायश्च महाऽध्वनि ॥६४॥ त्वया प्रियसखेनासौ सुखेनाप्ता निजं पदम् । लक्ष्मणेनेव संपूर्णकामः श्रीरामवद् ध्रुवम् ॥६५॥
३२६