________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
मध्येऽगारं गतो द्वारं दत्वा मञ्चकमाश्रितः । जगदे सविवादेन पित्रो किं वत्स ! बाधते ॥४२॥ यः कश्चिद्व्याधिराधिर्वा ब्रूहि तं यत्प्रतिक्रियाम् । कुर्वेऽवश्यं न मुक्तानामप्यर्थः स्फुटतां विना ॥४३॥ तद्वाक्यतुष्टस्तद्वारं झटित्युद्धाट्य सोऽब्रवीत् । यथावृत्तं यथाचित्तं पित्रे चित्रेण सोऽप्यवक् ॥४४॥ अस्माद्विश्वोत्तमादश्वाद्विश्वायामयमिच्छया । सञ्चरिष्णुश्चिरं मा स्मान् वियोगार्त्तान् व्यवधान्मुधा ॥४५॥ इत्याद्याशक्य तुरगो गोपितः प्राक् प्रयत्नतः । अर्घ्य एव त्विदानी ते कुर्याः किन्तु यथोचितम् ॥४६॥ इत्युदित्वा ददौ सौऽस्मै तं तुरङ्गं सरङ्गहृत् । याञ्चायामपि नायं चेद्दत्तः स्नेहे तदाऽनलः ॥४७॥ सोऽप्युच्चैर्मुमुदे तेन निधानेनेव निर्धनः । अभीष्टस्य विशिष्टस्य प्राप्तौ माद्यति वा न कः ॥४८॥ मणीखचितसौवर्णवर्यपर्याणमार्यधीः । कुमारोऽथ तमारुक्षदुदयाद्रिमिवांशुमान् ॥४९॥ ससमानवयःशीलैः सवयःप्रवरैर्वृतः । ह्यारूढरङ्गत्तुरगैर्निरगानगराद् बहिः ॥५०॥ उच्चैरुच्चैःश्रवस्तुल्यमतुल्योत्तमलक्षणम् । 'बाह्याल्यां वाहयामास स वाहेन्द्रं सुरेन्द्रवत् ॥५१॥ धोरितं वल्गितं प्लुत्युत्तेजिते च गती: क्रमात् । चतस्रस्तेन दक्षेण साक्षेपं खेल्यते स्म सः ॥५२॥
३२५
१. वोह्याल्यां इति को० ह० प्र० पाठः ।