________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
असुरकुमाराणं जोइसिआणं चंदसूराणं सोहम्मीसाणाणं सणंकुमारमाहिंदाणं बंभलंतगाणं सुक्कसहस्साराणं आणयाइचऊणं गेविज्जाणं जाव. बारसमासपरिआए समणे अणुत्तरोववाइयदेवाणं तेउलेसं वीईवयइ त्ति ।
इह तेजोलेश्या चित्तसुखलाभलक्षणा चारित्रस्य परिणतत्त्वे सतीति शेषः । प्राज्यैर्न हि महाराज्यैर्धनै तिघनैरपि । समग्रैर्नापि भोगाङ्गैरसन्तोषजुषः सुखम् ॥९॥ सुभूमकूणिकमुखा मम्मणाद्याश्च जज्ञिरे । हासाप्रहासापत्याद्याश्चासन्तोषण दुःखिताः ॥१०॥ प्रोक्तमपि-असन्तोषवतः सौख्यं न शक्रस्य न चक्रिणः । जन्तोः संतोषभाजो यदभयस्येव जायते ॥११॥ उपर्युपरि पश्यन्तः सर्व एव दरिद्रति । अधोऽधः पश्यत कस्य महिमा नोपजायते ॥१२॥ तत्सौख्यपोषिसन्तोषसाधनाय धनादिकम् । परिग्रहं परिमितीकुरुष्वाऽऽपि यदृच्छया ॥१३॥ धर्मः स्वल्पोऽपि नियमपूर्वोऽनन्तफलप्रदः । अनल्पोऽपि विना तेन स्यादल्पफलदः पुनः ॥१४॥ कूपेऽल्पायामपि सरौ वहन्त्यां नित्यमक्षयि । नीरं नीरन्ध्रनीरौघैः पूर्णे सरसि नो पुनः ॥१५॥ विधुरेऽपि निजं धर्म न त्यजेन्नियमे सति । जातु त्यजति सौस्थ्येऽपि विना तु नियमार्गलाम् ॥१६॥ उपात्त एव नियमे धर्मे स्याद् दृढताऽपि च । पशूनामपि सुस्थैर्य दामन्यामेव संभवेत् ॥१७॥ धर्मे दाढ्यं फलं वृक्षे जलं नद्यां बलं भटे । खलेऽसत्यं जले शैत्यं घृतं भोज्ये च जीवितम् ॥१८॥
३२२