________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
AAAAAAAAAAAAAAAA
तद्धर्मनियमे धर्मदृढत्वे च दृढं बुधैः । यतितव्यं यथाऽभीष्टसुखप्राप्तिः सुखं भवेत् ॥१९॥ रत्नसार: कुमारस्तां निशम्य सुगुरोगिरम् । सम्यक्त्वपूर्वं जग्राह परिग्रहमिति व्रतम् ॥२०॥ तद्यथा-रत्नानां लक्षमेकं मे दश लक्षाश्च काञ्चनम् । मुक्तानां विद्रुमाणां च प्रत्येकं मूढकाष्टकम् ॥२१॥ बद्धनाणकसङ्ख्यायां त्वष्टौ कनककोटयः । भारायुतं च रूप्यादेः शतं धान्यस्य मूढकाः ॥२२॥ शेषक्रयाणकं भारलक्षं षट् गोकुलानि च । गृहाट्टानां पञ्चशती यानानां च चतुःशती ॥२३॥ हयाः सहस्रं हस्तीन्द्राः शतमेकमितोऽधिकम् । न सङ्ग्राह्यं न च ग्राह्यं राज्यं व्यापारिताऽपि च ॥२४॥ पञ्चातिचारसंशुद्धं च पञ्चममणुव्रतम् । प्रतिपद्येति सश्रद्धः श्राद्धधर्ममपालयत् ॥२५॥ सुहृद्भिः सह सत्याद्वैः स भ्रमन् समयान्तरे । रोलम्बरोलनामानं जगामाराममादृतः ॥२६॥ आरामश्रियमुत्पश्य पश्यन् क्रीडागिरिं गतः । दिव्यगीतरवं दिव्य-नेपथ्यं दिव्यरूपभृत् ॥२७॥ तस्मिन् किन्नरमिथुनं हयास्यं नरविग्रहं । अदृष्टपूर्वं दृष्ट्वासौ विस्मितः स्मितवागवक् ॥२८॥ युग्मम् । यद्येष मोऽमयो वा तत्किमश्वमुखस्ततः । न नरो न सुर: किन्तु तिर्यद्धीपान्तरोद्भवः ॥२९॥ किं वा कस्यापि देवस्य वाहनं संभवेदिदं । इत्याकाऽभणत्कर्णाडदूनो नु किं नरः ॥३०॥ कुमार ! कुविचारान्मां विडम्बयसि किं मुधा । स्वैरं विलासवान् विश्वेऽप्यहं हि व्यन्तर: सुरः ॥३१॥
३२३