________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
भिउडी ऊद्धालोअणं अंतोवत्ता परम्मुहं ठाणं । मोणं कालविलंबो नक्कारो छव्विहो होइ ॥ आनन्दाश्रूणि रोमाञ्चो बहुमानः प्रियं वचः । किञ्चाऽनुमोदना पात्रदाने भूषणपञ्चकम् ॥ सुपात्रदाने परिग्रहपरिमाणनियमपालने च रत्नसारकुमारकथा । यथारत्नविशाला नगरी गरीयः संपदां पदम् । यथार्थनामा समरसिंहस्तत्र नरेश्वरः ॥१॥ व्यवहारी दुःस्थदुःखापहारी तत्र चाभवत् । वसुसार श्रिया सारः प्रियाऽस्य च वसुन्धरा ॥२॥ रत्नसारगुणश्रेणी रत्नसारस्तयोः सुतः । सवयोभिः समेतोऽसौ समेतो वनमन्यदा ॥३॥ विनयन्धरसूरीन्द्रान् प्रेक्षावान् प्रेक्ष्य तत्र च । नत्वाऽप्राक्षीत्प्रभोऽत्रापि प्राप्यते सुखिता कथम् ? ॥४॥ मुमुक्षुमुख्या आचख्युर्दक्ष ! सन्तोषपोषतः । भवेऽत्रापि भवेज्जीवः सुखी न त्वन्यथा क्वचित् ॥५॥ सन्तोषश्च भवेद् द्वेधा देशतः सर्वतस्तथा । तत्र स्याद्देशसन्तोषः सौख्याय गृहमेधिनाम् ॥६॥ परिग्रहपरिमाणग्रहणे गृहिणां पुनः । देशसंतोषपोषः स्यादतुच्छेच्छानिवृत्तितः ॥७॥ सर्वसन्तोषपोषस्तु यतीनामेव संभवेत् । अनुत्तरसुरेभ्योऽप्यत्राऽप्यनुत्तरसौख्यदः ॥८॥ उक्तञ्च पञ्चमाङ्गे-एगमासपरिआए समणे वाणमंतराणं, दोमासपरिआए भवणवईणं, एवं तिचउप्पंचछसत्त-अट्ठनवदसएगारसमासपरिआए
३२१