________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
यद्यथा क्रियते कर्म तत्तथैवोपभुज्यते । सहस्रगुणमप्येवं ज्ञात्वा कुर्याद्यथोचितम् ॥
ततः स प्रबुद्धो गृहिधर्मं प्रपेदे, दिननिशाऽऽद्ययामयोधर्म एव कार्य इत्यभिग्रहं च । ततः श्राद्धगृहे उत्तीर्णः । प्रातर्मालिकेन सह पुष्पाणि भागेनाऽवचित्य गृहे चैत्ये चार्हन्तं भक्त्याऽर्चति, द्वितीययामादौ तस्य व्यवहारशुद्धिदेशादिविरुद्धत्यागौचित्याचरणादिविधिना व्यवहारतोऽकृच्छ्रेण भोजनादि स्यात् । एवं यथा यथा धर्मे स्थैर्यं तथा तथाऽधिकाधिकधनमर्जयति धर्मे | च व्ययति । क्रमात् पृथग् गृहे स्थितो धर्मिष्ठतया महेभ्यदत्तां कन्यां परिणिन्ये । अन्यदोच्चलति गोकुले गुडतैलादि विक्रेतुं गतो गोकुलाधिपमङ्गारधिया त्यक्तनिधिस्वर्णं दृष्ट्वा 'स्वर्णमिदं कस्मात् त्यज्यते ?' इत्यूचे । तेनोक्तं-'प्राग् वयं पित्रा स्वर्णोक्त्या | वञ्चितास्त्वमपि वञ्चयसे ?' तेनोक्तम्, अहं कूटं न ब्रुवे' । सोऽप्याह-'तर्हि गुडादि दत्वा त्वमेव गृहाण । ततस्तेन तथा कृतम् । त्रिंशत्सहस्रमानेन तेनान्येनापि बह्वजितेन स महेभ्यो जज्ञे । अहो तद्भवेऽपि धर्ममाहात्म्यम् । अन्येद्युः सुमित्रमहेभ्यगृहे कर्मवशादेकाकी स गतः । तदा कोटिमूल्यरत्नैः कृतं हारं बहिर्भुक्त्वा किञ्चित् कार्येण सुमित्रो मध्ये गत्वा पश्चादागतो हारमदृष्ट्वाऽत्राऽन्याभावात्त्वयैवात्त इत्युक्त्वा तं राजकुले निन्ये । तेन जिनार्चासदृष्टिसुरकायोत्सर्गपूर्वं दिव्यप्रारम्भे तु रत्नावली सुमित्रस्य ओटितः पतिता । सर्वेषां विस्मयः । ज्ञानी पृष्ट : प्राह-"गङ्गदत्तो गृहपतिस्तद्भार्या मगधा श्रेष्ठिपन्याः प्रच्छन्नं लक्षमूल्यं रत्नं जगृहे । तया बहु बहु मार्गणे भार्यामोहाद् गङ्गदत्तः तव स्वैरेवात्तं इत्यालं ददौ । ततः सा खिन्ना तापसीभूय | व्यन्तरो जज्ञे । मगधा तु मृत्वा सुमित्रः, गङ्गदत्तस्तु धनमित्रः । तेन व्यन्तरेण क्रुधा सुमित्रस्याऽष्टौ पुत्रा निहताः । रत्नावली
३१७