________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
आरूढं तु वहेद्भारं शीतोष्णं न च विन्दते । सन्तुष्टश्च भवेन्नित्यं त्रीणि शिक्षेत गर्दभात् ॥ इत्याद्यन्यदपि नीतिशास्त्राद्युक्तं सर्वमौचित्यं सुश्रावकेण सम्यक् चिन्त्यम् । यतःहितमहितमुचितमनुचितमवस्तु वस्तु स्वयं न यो वेत्ति । स पशुः शृङ्गविहीनः संसारवने परिभ्रमति ॥ नो वक्तुं न विलोकितुं न हसितुं न क्रीडितुं नेरितुं, न स्थातुं न परीक्षितुं न पणितुं नो राजितुं नार्जितुम् । नो दातुं न विचेष्टितुं न पठितुं नानन्दितुं नैधितुं, यो जानाति जनः स जीवति कथं निर्लज्जचूडामणि ॥ आसितुं शयितुं भोक्तुं परिधातुं प्रजल्पितुम् । वेत्ति यः स्वपरस्थाने विदुषां स नरोऽग्रणी ॥ इत्यलं प्रसङ्गेन ।
व्यवहारशुद्ध्यादित्रयेणार्थचिन्तायां ज्ञातम् । यथा-विनयपुरे इभ्यवसुभद्रापुत्रो धनमित्रो बाल्ये पित्रोम॑त्या धनहान्या निःस्वो दुःखी यौवने कन्याया अप्राप्तौ ह्रिया धनार्जनार्थं गतः । खन्यवादधातुवादरसमन्त्रजलस्थलयात्राविविधवाणिज्यनृपादिसेवादावपि धनाप्राप्त्याऽत्युद्विग्नो गजपुरे केवलिनं प्राग्भवं पप्रच्छ । सोऽप्यूचे 'विजयपुरे गङ्गदत्तो गृहपतिः, कृपणो मत्सरी दानलाभादावन्येषामपि विघ्नकृत्, सुन्दरश्राद्धेन मुनिपावें नीतः । किञ्चिद्भावाद् दाक्षिण्याच्च प्रत्यहं चैत्यवन्दनापूजादिधर्मकरणं स्वीचक्रे । कार्पण्यादिना च पूजादौ शिथिलश्चैत्यवन्दनाभिग्रहं पालितवान् । तत्पुण्येनेभ्यपुत्रस्त्वं जातः, अस्माकं मिलितश्च । प्राग्दुष्कृताच्चातिनि:स्वो दु:खी च
३१६