________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
मैथुनं मृगयां नग्नां स्त्रियं प्रकटयौवनाम् । पशुक्रीडां च कन्याया योनि चाऽऽलकयेन्न हि ॥ न तैले न जले नास्त्रे न मूत्रे रुधिरे न च । वीक्षेत वदनं विद्वानित्थमायुस्त्रुटिर्यतः ॥ प्रतिपन्नस्य न त्यागः शोकश्च गतवस्तुनः । निद्राच्छेदश्च कस्यापि न विधेयः कदाचन ॥ अकुर्वन् बहुभिर्वैरं दद्याद् बहुमते मतम् । गतास्वादानि कृत्यानि कुर्याच्च बहुभिः समम् ॥ शुभक्रियासु सर्वासु मुख्यैर्भाव्यं मनीषिभिः । नराणां कपटेनापि निस्पृहत्वं फलप्रदम् ॥ द्रोहप्रयोजने नैव भाव्यमत्युत्सुकैनरैः । कदाचिदपि कर्तव्यः सुपात्रेषु न मत्सरः ॥ स्वजातिकष्टं नोपेक्ष्यं तदैक्यं कार्यमादरात् । मानिनां मानहानिः स्यात्तद्दोषादयशोऽपि च ॥ स्वजातिं ये परित्यज्य परजातिषु ये रताः । ते नरा निधनं यान्ति यथा राजा कुकर्दमः ॥ नश्यन्ति ज्ञातयः प्रायः कलहादितरेतरम् । मिलिता एव वर्द्धन्ते कमलिन्य इवाम्भसि ॥ दारिद्र्योपद्रुतं मित्रं नरं सार्मिकं सुधीः । ज्येष्ठं ज्ञातिगुणैर्जामिमनपत्यां च यापयेत् ॥ सारथ्यायाऽन्यवस्तूनां विक्रयाय क्रयाय च । कुलानुचितकार्याय नोद्यच्छेद् गौरवप्रियः । महाभारतादावप्येवमुक्तम्
३१०