________________
प्रथमः
प्रकाशः
३०९
a. bf. ba
प्रस्तावेऽपि कुलीनानां हसनं स्फुरदोष्टकम् । अट्टहासोऽतिहासश्च सर्वथाऽनुचितौ पुनः ॥ स्वाङ्गवाद्यं तृणच्छेदं व्यर्थं भूमेर्विलेखनम् । नैव कुर्यान्नखैर्दन्तनखानामपि घर्षणम् ॥ न गर्वः सर्वथा कार्यो भट्टादीनां प्रशंसया । व्युत्पन्नश्लाघया कार्यः स्वगुणानां तु निश्चयः ॥ अवधार्या विशेषोक्तिः परवाक्येषु कोविदैः । नीचेन स्वं प्रति प्रोक्तं यत्तन्नानुवदेत्सुधीः ॥ कालत्रयेऽपि यत्किञ्चिदात्मप्रत्ययवर्जितम् । एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ॥ प्रारभ्यते नरैर्यच्च कार्यं कारयितुं परैः । दृष्टान्तान्योक्तिभिर्वाच्यं तदग्रे पूर्वमेव तत् ॥ यदि चान्येन केनापि तत्तुल्यं जल्पितं भवेत् । प्रमाणमेव तत्कार्यं स्वप्रयोजनसिद्धये ॥ यस्य कार्यमशक्यं स्यात्तस्य प्रागेव कथ्यते । नैहिरेयाहिरां कार्यों वचोभिर्वितथैः परः ॥ वैभाष्यं नैव कस्यापि वक्तव्यं द्विषतां तु चेत् । उच्यते तदपि प्राज्ञैरन्योक्तिच्छन्नभङ्गिभिः ॥ मातृपित्रातुराचार्यातिथिभ्रातृतपोधनैः । वृद्धबालाबलावैद्यापत्यदायादकिङ्करैः ॥ स्वसृसंश्रितसम्बन्धिवयस्यैः सार्द्धमन्वहम् । वाग्विग्रहमकुर्वाणो विजयेत जगत्त्रयी ॥ युग्मम् । न पश्येत् सर्वदादित्यं ग्रहणं चार्कसोमयोः । नेक्षेताम्भो महाकूपे सन्ध्यायां गगनं तथा ॥
1111
श्राद्धविधि
प्रकरणम्