________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAA
पण्डितोऽस्मीति वाचालः सुभटोऽस्मीति निर्भयः । उद्धेजनोऽतिस्तुतिभिर्मर्मभेदी स्मितोक्तिभिः ॥ दरिद्रहस्तन्यस्तार्थः सन्दिग्धेऽर्थे कृतव्ययः । स्वव्यये लेख्यकोद्वेगि दैवाशात्त्यक्तपौरुषः ॥ गोष्ठीरतिर्दरिद्रश्च क्षैब्यविस्मृतभोजनः । गुणहीनः कुलश्लाधी गीतगायी खरस्वरः ॥ भार्याभयान्निषिद्धार्थी कार्पण्येनाऽऽप्तदुर्दशः । व्यक्तदोषजनश्लाघी सभामध्यार्द्धनिर्गतः ॥ दूतो विस्मृतसन्देशः कासवांश्चौरिकारतः । भूरि भोज्यव्ययः कीर्तेः श्लाघायै स्वल्पभोजनः ॥ स्वल्पभोज्येऽतिरसिको विक्षिप्तश्छद्मचाटुभिः । वेश्यासपत्नकलही द्वयोर्मन्त्रे तृतीयकः ॥ राजप्रसादे स्थिरधीरन्यायेन विद्धिषुः । अर्थहीनोऽर्थकार्यार्थी जने गुह्यप्रकाशकः ॥ अज्ञातप्रतिभूः कीत्य हितवादिनि मत्सरी । सर्वत्र विश्वस्तमना न लोकव्यवहारवित् ॥ भिक्षुकश्चोष्णभोजी च गुरुश्च शिथिलक्रियः । कुकर्मण्यपि निर्लज्जः स्यान् मूर्खश्च सहासगीः ॥ इति मूर्खशतम् । अन्यदप्येवंविधं कुशोभाकृत्त्याज्यम् । उक्तं च विवेकविलासादौ । विजृम्भणक्षुतोद्गारहास्यादीन् पिहिताननः । कुर्यात् सभासु नो नासाशोधनं हस्तमोटनम् ॥ कुर्यात् पर्यस्तिकां नैव न च पादप्रसारणम् । न निद्रां विकथां नापि सभायां कुक्रियां न च ॥
३०८