________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
जइवि न मणम्मि भत्ती, न पक्खवाओ अ तग्गयगुणेसु । उचिअंगिहागएसुत्ति तह वि धम्मो गिहीण इमो ॥ पक्षपातोऽनुमोदना । धम्मोत्ति आचारः । गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं । दुहिआण दया एसो, सव्वेसिं सम्मओ धम्मो ॥
पुरुषमपेक्ष्य मधुरालपनासननिमन्त्रणकार्यानुयोगतन्निर्माणादिकमुचितम् । दुःखितानां दीनानाथान्धबधिव्याधितादीनां दया यथाशक्ति तत्प्रतीकारश्च । ये किलानन्तरोक्ते लौकिकेऽप्युचिताचरणमात्रे कर्मणि न कर्मठास्ते कथं लोकोत्तरे लोकोत्तर नरसूक्ष्ममतिग्राह्ये च जैने धर्मे प्रवीणाः स्युः, तस्मादवश्यं धर्मार्थिभिरुचिताचरणनिपुणैर्भाव्यम् । अन्यत्राऽप्यूचे
सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगुणेसु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाइं ॥ मुचंति न मज्जायं, जलनिहिणो नाचला वि हु चलंति । न कयावि उत्तमनरा, उचिआचरणं विलंघंति ॥ तेण चिअ जयगुरुणो, तित्थयरा विहु गिहत्थभावम्मि । अम्मापिऊणमुचिअं, अब्भुट्ठाणाइ कुव्वंति ॥ इति नवधौचित्यम् ।
अवसरे चोचितं वचनमपि महते गुणाय । यथा मल्लिकार्जुन जित्वा चतुर्दशरैकोटिमुक्ताषण्मूढकचतुर्दशभारमितद्वात्रिंशद्वैकुम्भशृङ्गारकोटीशाटीमाणिक्यपटविषापहशुक्त्यादितत्कोशढौकनतुष्टः कुमारनृपो मन्त्रि-आम्बडाय राजपितामहबिरुदकोटीद्रव्यचतुर्विंशतिजात्याश्वादि ददे । स तु तत्सर्वं गृहादगिर्थिभ्यो ददौ । पैशुन्याद् राज्ञः कोपे कि मत्तोऽप्यधिकं
३०५