________________
प्रथमः
प्रकाशः
३०४
कारणिकैः श्रीव्ययाराजदेवधर्मोपपदकरणादिनियुक्तैस्तदुपजीविभिरन्यैरपि सह द्रव्यव्यवहारः कदापि न कार्यः । ते हि धनदानावसर एव प्रायः प्रसन्नमुखरागाः प्रकटितकृत्रिमालापसम्भाषणासनताम्बूलप्रदानादिबाह्याडम्बराः सौमनस्यमाविर्भावयन्तः, प्रस्तावे च स्वदत्तमपि वित्तं याचितास्तिलतुषमात्रमपि स्वोपकारं प्रकटमुद्धट्टयन्तस्तदैव दाक्षिण्यमुन्मुञ्चन्ति । स च स्वभाव एव तेषाम् । यतः
द्विजन्मनः क्षमा मातुर्द्वेषः प्रेम पणस्त्रियाः । नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ॥ पूर्वोपात्तवित्तनिर्नाशाय च कृत्रिमानपि दोषानुत्पाद्य प्रत्युतैतान् नृपतिग्राह्यान् विदधति । यतःउत्पाद्य कृत्रिमान् दोषान्, धनी सर्वत्र बाध्यते । निर्धनः कृतदोषोऽपि, सर्वत्र निरुपद्रवः ॥
किंपुण त्ति । यतः सामान्योऽपि क्षत्रियो वित्तार्थमभियुक्तः खड्गं दर्शयति किं पुनः प्रकृत्यमर्षणाः क्षोणिभुज: ? । एवं समानवृत्तिनागरवदसमानवृत्तिनागरेष्वपि यथार्हमौचित्यं चिन्त्यम् ।
एयं परुप्परं नायराण पाएण समुचिआचरणं । परतित्थिआण समुचिअमह किंपि भणामि लेसेणं ॥ एएसिं तित्थिआणं, भिक्खट्टमुट्ठिआण निअगेहे । कायव्वमुचिअकिच्चं, विसेसओ रायमहिआणं ॥ उचितकृत्यं यथार्हदानादि ।
771111111
श्राद्धविधिप्रकरणम्