________________
प्रथम:
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
मन्त्रभेदे च कार्यविपत्तिनृपप्रकोपादयो दोषाः, तस्मात्संवृतमन्त्रैर्भाव्यम् । राजादीनां पुरः परस्परदूषणोद्घोषणे च | श्राद्धविधिलब्धमध्यत्वान्नृपाद्यपमानदण्डादयो दोषाः । एकवृत्तीनामसंहतत्वस्य विनाशहेतुत्वात् । पठ्यतेऽपि
प्रकरणम् एकोदराः पृथग्ग्रीवा, अन्यान्यफलकाङ्क्षिणः । असंहता विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ परस्परस्य मर्माणि, ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति, वल्मीकोदरसर्पवत् ॥ समुवट्ठिए विवाए, तुलासमाणेहिं चेव ठायव्वं । कारणसाविक्खेहि, विहुणेअव्वो न नयमग्गो ॥ कारण त्ति स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेक्षैर्नयमार्गो न विधूनयितव्यः । बलिएहिं दुब्बलजणो, सुंककराईहिं नाभिभविअव्वो । थेवावराहदोसे वि दंडभूमिं न नेअव्वो ॥
शुल्ककराधिक्यनृपदण्डादिभिरपि हन्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति । संहतिविनाकृताश्च बलवत्तरा अपि वनसंहतिविरहिताः सिंहा इवाभिभूयन्ते एव । तस्मात् परस्परसंहतिरेव श्रेयस्करी । उक्तञ्च
संहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेषतः । तुषैरपि परिभ्रष्टा, न प्ररोहन्ति तन्दुलाः ॥ गिरयो येन भिद्यन्ते, धरा येन विदार्यते । संहतेः पश्य माहात्म्यं, तृणैस्तद्वारि वार्यते । कारणिएहिं पि समं, कायव्वो ता न अत्थसंबंधो । किं पुण पहुणा सद्धि, अप्पहिअं अहिलसंतेहिं ॥
३०३