________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
जत्थ सयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति । ससमाणवत्तिणो ते, नायरया नाम वच्चंति ॥ स्वसमानवृत्तयो वणिग्वृत्तिजीविनः । समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहिं । वसणूसवतुल्लगमागमेहिं निच्चं पि होअव्वं ॥
'तुल्ल त्ति' तद्व्यसनागमे स्वयमपि व्यसनावलीटैरिव तदुत्सवे च सोत्सवैरिव भाव्यम् । अन्यथाऽन्योऽन्योदासीना नृपनियोगि मृगयूनामामिषमेव पौरलोकाः ।।
कायव्वं कज्जं वि हु, न इक्कमिक्केण दंसणं पहुणो । कज्जे(ज्जो )न मंतभेओ, पेसुन्नं परिहरेअव्वं ॥
महत्यपि कार्ये पृथक् पृथग् महत्त्वेच्छया राज्ञो दर्शनेऽन्यवैमनस्यादयो दोषाः, तस्मात्समुदितैरेव तुल्यत्वेऽपि यवनवत्कस्यचिन्मुख्यत्वप्रदानादिना मिथः सापेक्षः, पुनर्नृपादेशात्परीक्षार्थमन्त्र्यर्पितैकशय्याशाय्यवलगकपञ्चशतीवदबद्धैर्नृपदर्शनविज्ञप्त्यादि विधेयम् । यतः
बहूनामप्यसाराणां, समुदायो जयावहः । तृणैरावेष्टिता रज्जुर्यया नागोऽपि बध्यते ॥
१. नियोगे इति को० ह० प्र० पाठः ।
३०२