________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
AAN
छिद्रान्वेषित्वं सुहृदादयो भावाः श्रावकाणां सम्भवन्ति ? सत्यम्, इदृशा एव ते, परं भिन्नभिन्नप्रकृतीनामुपासकानामुन्मीलन्त्येव | तेष्वपि स्वस्वप्रकृतिसमुचिता भावाः । यत्स्थानाङ्गसूत्रम्
'गोयमा ! चउव्विहा सावया पन्नत्ता, मायापिअरसमाणे भायसमाणे मित्तसमाणे सवसिमाणे' इत्याधुक्तं प्राक् । (अ०४-३२१) पडिणीय त्ति प्रत्यनीकोपप्लवञ्च सर्वशक्त्या वारयति । उक्तं हिसाहूण चेइआण य, पडिणीअं तह अवन्नवायं च । जिणपवयणस्स अहिअं, सव्वत्थामेण वारेड् ॥ अत्र सगरचक्रिपौत्रभगीरथस्य जीवः, प्रान्तग्रामवासिषष्टिसहस्रमनुष्यैर्यात्रार्थिसङ्घोपद्रवे तन्निवारकः कुम्भकारो ज्ञातम् । खलिअम्मि चोइओ गुरुजणेण मन्नइ तहत्ति सव्वं पि । चोएइ गुरुजणं पि हु, पमायखलिएसु एगंते ॥ 'चोएइ त्ति' भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवताम् ? इत्यादिना ।। कुणइ विणओवयारं, भत्तीए समयसमुचिअं सव्वं । गाढं गुणाणुरायं, निम्मायं वहइ हिअयम्मि ॥ 'सव्वं ति' सम्मुखागमनाभ्युत्थानासनदानसंवाहनादि शुद्धवस्त्रपात्राहारादिप्रदानादिकञ्च । भावोवयारमेसि, देसंतरठिओ वि सुमरड़ सयावि । इअ एवमाइगुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ भावोपकारः सम्यक्त्वदानादि ।
३०१