SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः ३०६ दत्से ? इत्युक्तौ तव पिता द्वादशग्रामस्वामी मम त्वष्टादशदेशस्वामीत्युचितोक्त्या तुष्टो नृपः पुत्रपदं द्विगुणं च प्रसादं तस्मै ददौ । तदवादिष्म दाने याने माने, शयनासनपानभोजने वचने । सर्वत्राऽन्यत्रापि हि भवति महारसमयः समयः ॥ अतः समयज्ञता सर्वत्रौचित्यबीजम् औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यपरिवर्जितः ॥ इत्युक्तेः । सर्वमनौचित्यं च त्याज्यम् । येन च कृतेन मूर्खत्वव्यपदेशस्तदप्यनुचितमिति परीहार्यम् । तदपि लौकिकशास्त्रोक्तं बहूपकारित्वात् प्रदर्श्यते । यथा शृणु मूर्खतं राजंस्तं तं भावं विवर्जय । येन त्वं राजसे लोके दोषहीनो मणिर्यथा ॥ सामर्थ्ये विगतोद्योगः स्वश्लाघी प्राज्ञपर्षदि । वेश्यावचसि विश्वासी प्रत्ययी दम्भडम्बरे || द्यूतादिवित्तबद्धाशः कृष्याद्यायेषु संशयी । निर्बुद्धिः प्रौढकार्यार्थी विविक्तरसिको वणिक् ॥ ऋणेन स्थावरक्रेता स्थविरः कन्यकावरः । व्याख्याता चाश्रुते ग्रन्थे प्रत्यक्षार्थेऽप्यपह्नवी ॥ चपलापतिरीर्ष्यालुः शक्तशत्रुरशङ्कितः । दत्वा धनान्यनुशयी कविना हठपाठकः ॥ श्राद्धविधि प्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy