________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
(१७) वृद्धानुगो वृत्तस्थज्ञानवयोवृद्धसेवकः । (१८) विनीतो गुणाधिके गौरवकृत् । (१९) कृतज्ञः परोपकाराऽविस्मारकः । (२०) परहितार्थकारी निरीह: सन् परार्थकृत् । (२१) लब्धलक्षो धर्मकृत्येषु सुशिक्षित इति । एते चैकविंशतिरपि भद्रकत्वादिचतुर्गुणसद्भावे प्रायः प्राप्यन्ते । तत्र भद्रकत्वेऽक्षुद्रत्व-प्रकृतिसौम्यत्वाकूरत्व-सदक्षिणत्व-दयालुत्व-मध्यस्थत्वसोमदृष्टित्व-वृद्धानुगत्व-विनीतत्वानि, विशेषनिपुणमतित्वे स्पष्टपञ्चेन्द्रियत्व-रूपवत्त्व-सुदीर्घदर्शित्व-विशेषज्ञत्व-कृतज्ञत्वपरहितार्थकृत्त्व-लब्धलक्षत्वानि, नयमार्गरतित्वे भीरुत्वाशठत्व-लज्जालुत्व-गुणरागित्व-सत्कथत्वानि, दृढजिनवचनस्थितित्वे लोकप्रियत्व-सुपक्षयुक्तत्वे च प्रायो दृश्यन्ते इत्यत्र तच्चतुष्कमेवोक्तम् । एषु चतुर्खाद्यगुणत्रयं विना कदाग्रहग्रस्तत्वान्मूढत्वाकुर्नयाऽऽसक्तत्वात् श्राद्धधर्मप्रतिपत्तिरेव न स्यात् । दृढप्रतिज्ञत्वाभावे तु प्रतिपन्नोऽपि श्राद्धधर्मो धूर्त्तमैत्र्यमिव ग्रहिलगृहीतसुवेष इव कपिकण्ठन्यस्तहार इव स्वल्पनिर्वाह एवेति । एवंविधगुण एव गृही सुभित्तिरिव चित्रन्यासम्, सुदृढपीठबन्ध इव प्रासादम्, सुघटितकाञ्चनमिव माणिक्यं श्राद्धत्वमर्हति श्राद्धधर्माधिकारी स्यात्, सम्यग्दर्शनादिकं चोल्लकादिदशदृष्टान्तैर्दुर्लभमपि गुर्वादियोगे लभते सम्यक्त्वं, निर्वहते प्राग्भवे शुकराज इवेति भाव इति तृतीयगाथार्थः ॥३॥
शुकराजकथा चेयम्अत्रैव भरतक्षेत्रे क्षेत्रे सस्यैकसंपदाम् । क्षितिप्रतिष्ठितमिति ख्यातं पुरमभूत्पुरा ॥१॥