________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
एते धर्मस्यानर्हाः । अर्हस्तु मध्यस्थोऽरक्तद्विष्टो धर्मे आर्द्रकुमारादिवदित्युक्तं भद्रकप्रकृतिः । तथा विशेषेण विशेषे वा हेयोपादेयाद्यन्तररूपे; निपुणा न तु मूढा मतिर्यस्य, एतावताऽनन्तरोक्तदृष्टान्तस्य मूढस्यार्हत्वं निरस्तं । तथा न्यायमार्गे 4वक्ष्यमाणव्यवहारशुद्ध्यादौ न त्वन्यायमार्गे रतिर्यस्य । तथा दृढा न तु शिथिला निजवचने स्थितिर्यस्य दृढप्रतिज्ञः इत्यर्थः ।। एभिश्चतुर्भिर्गुणैरागमोक्ता एकविंशतिरपि श्राद्धगुणा आक्षिप्ताः । ते चैते -
धम्मरयणस्स जुग्गो अक्खुद्दो रूववं पगइसोमो । लोगपिओ अक्कूरो भीरू असढो सदक्खिण्णो ॥ लज्जालुओ दयालू मज्झत्थो सोमदिट्ठि गुणरागी । सक्कहसुपक्खजुत्तो सुदीहदंसी विसेसन्नू ॥ वुड्डाणुगो विणीओ कयण्णुओ परहिअत्थकारी अ । तह चेव लद्धलक्खो इगवीसगुणेहिं संपन्नो ॥ धर्म० ५-६-७
(१) अक्षुद्रोऽतुच्छहृदयः । (२) रूपवान् स्पष्टपञ्चेन्द्रियः । (३) प्रकृतिसोमः स्वभावतोऽपापकर्मा सुखसेव्यश्च । (४) लोकप्रियो दानविनयशीलवत्तया । (५) अक्रूरोऽक्लिष्टचित्तः । (६) भीरु: पापाऽयशोभ्यां बिभेति । (७) अशठ: परावञ्चकः । (८) सदाक्षिण्यः प्रार्थनाभङ्गभीरुः। (९) लज्जालुरकार्यवर्जकः । (१०) दयालुः सत्त्वानुकम्पकः । (११) मध्यस्थो रागद्वेषरहितः, अत एव सोमदृष्टिः, स च यथावस्थितधर्मविचारवित्त्वाद् दूरं दोषत्यागी । (१२) गुणरागी गुणिपक्षपाती निर्गुणोपेक्षकश्च । (१३) सत्कथः सती धा कथाऽभीष्टा यस्य स तथा । (१४) सुपक्षयुक्तः सुपक्षणसुशीलानुकूलेन परिवारेण युक्तः । (१५) सुदीर्घदर्शी सर्वत्राऽऽयतिदर्शित्वाद्बहुलाभाल्पक्लेशकार्यकर्ता । (१६) विशेषज्ञोऽपक्षपातित्वेन गुणदोषविशेषज्ञः ।