________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
(१) रक्तो= दृष्टिरागी, यथा भुवनभानुकेवलिजीवः प्राग्भवे भूपभूविश्वसेनस्त्रिदण्डिभक्तोऽतिकृच्छ्रेण सद्गुरुभिर्बोधितः | स्वीकृतदर्शने दृढीकृतोऽपि प्राक्परिचितत्रिदण्डिगिरा दृष्टिरागोल्लासाद्वान्तदर्शनो भ्रान्तोऽनन्तभवम् ।
(२) द्विष्टो भद्रबाहुबन्धुवराहमिहिरादिवत् ।
(३) मूढो वचनभावार्थानभिज्ञो ग्रामेयककुलपुत्रकवत् । यथा स मात्रा राजसेवार्थं शिक्षितो 'विनयः कार्यः', स प्राह 'विनयः कः ?' तयोचे-'जोत्कारनीचैर्गतिच्छन्दानुवृत्त्यादिः' । स नृपसेवार्थं पुरं गच्छन्नन्तरा मृगवधार्थनिलीनव्याधानां महाशब्देन जोत्कारमकरोत् । मृगेषु नष्टेषु तैस्ताडितः उक्ते सद्भावे तैरुक्तम् 'ईदृक्कार्ये छन्नं गन्तव्यम्' । ततोऽग्रे रजकान् दृष्ट्वा स छन्नं गच्छन् प्राक् चौरहतवस्त्रैस्तैश्चोरोऽयमीति बद्धः उक्तश्च 'शुद्धं भवत्विति वाच्यम्' । अग्रे बीजवापकानां तथोक्ते कुट्टयित्वा तैरुक्तो 'बहु बहु भवत्विति वाच्यम्' । अग्रे मृतकं दृष्ट्वा तथोक्ते तथैवोक्तस्तैर: 'ईदृग् माभूदिति वाच्यम्' । विवाहे तथोक्ते कुट्टितस्तच्छिक्षया निगडं बध्यमानं दण्डिकस्य शाश्वतमस्त्वित्युक्त्वा, तथैव तच्छिक्षया मैत्री कुर्वत्सु 'लघु मोक्षोऽस्तु' इत्युक्ते हतो मुक्तश्चैकं दण्डिकपुत्रं सेवते । अन्यदा दुर्भिक्षे तज्जायोक्त्या 'रब्बा सिद्धाऽस्ति इति सभान्तर्गाढमुक्ते लञ्जितेन तेन गृहे कुट्टितः, उक्तश्च 'इदृक् छन्नं वाच्यम् । समये प्रदीपने तथोक्ते गृहे दग्धे शिक्षित 'ईदृशि लघु स्वयं कचवरजलादि क्षेप्यम्' अन्यदा केशान् धूपयतस्तस्य मूनि धूमं दृष्ट्वा गोभक्तं क्षिप्तमिति ॥४॥
(४) पूर्वं व्युद्ग्राहितो गोशालकादिव्युद्ग्राहितनियतिवाद्यादिवत् ॥
४