________________
प्रथमः
प्रकाशः
३
च
दिणरत्ति - पव्व - चउमासगवच्छर-जम्मं किच्चदाराईं । सढाणणुग्गहट्टा सढविहिए भणिज्जंति ॥२॥
दिनरात्रिपर्वचतुर्मासंवत्सरजन्मनां कृत्यानि = कार्याणि तान्येव द्वाराणि । अयमर्थः - दिनकृत्य - रात्रिकृत्य-पर्वकृत्यचातुर्मासकृत्य - वत्सरकृत्य- जन्मकृत्यरूपाणि षट् द्वाराणि श्राद्धानामनुग्रहार्थं श्राद्धविधौ भण्यन्ते विव्रियन्ते इति द्वितीयगाथार्थः
IIRII
एवं मङ्गलपूर्वकमभिधेयमभिधाय योग्यस्यैव विद्या राज्यं धर्मश्च देयानीति आदौ श्राद्धधर्मस्य योग्यमाह
सद्वृत्तणस्स जुग्गो भद्दगपगई विसेसनिउणमई ।
नयमग्गरई तह दढनिअवयणठिई विणिद्दिट्ठो ॥३॥
ईदृग्गुणः श्राद्धत्वस्य योग्यो विनिर्दिष्टः सर्वज्ञैरिति शेषः । तत्र भद्रकप्रकृतिः = माध्यस्थ्यादिगुणोपेतो, न तु कदाग्रहग्रस्तहृदयादिः । उक्तञ्च
रत्तो दुट्ठो मूढो पुव्वं वुग्गाहिओ अ चत्तारि । एए धम्माणरिहा अरिहो पुण होइ मज्झत्थो ॥
श्राद्धविधिप्रकरणम्