________________
श्राद्धविधि
प्रथम:
प्रकाशः
प्रकरणम्
AAAAAAAAAAAAAAAAAAAAAAAAA
श्रिया केवलालोकाशोकादिप्रातिहार्यपञ्चत्रिंशद्वचनगुणाद्यतिशायिलक्ष्म्या युक्तं वीरजिनं चरमतीर्थङ्करं कर्मविदारणाद्यन्वर्थाच्च | वीरः । उक्तञ्च
विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥ रागाद्यरिजेतृत्वाच्च जिनः । वीरत्वं च दानयुद्धधर्मवीरभेदात् त्रिधा, यदाहु:
कृत्वा हाटककोटिभिर्जगदसद्दारिद्यमुद्राकषं हत्वा गर्भशयानपि स्फुरदरीन् मोहादिवंशोद्भवान् ।
तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं तपस्त्रेधा वीरयशो दधद्विजयतां श्रीवीरतीर्थेश्वरः ॥ एवं च श्रीवीरजिनमित्येतावतैवापायापगमज्ञानपूजावचनातिशयाश्चत्वारोऽप्यसूच्यन्त । प्रणम्य प्रकर्षेण भावपूर्वकं मनोवाक्कायैर्नत्वा, श्रुतात् सिद्धान्तात्पुनरावृत्तिव्याख्यानेन श्रुताद्गुरूसम्प्रदायादेराकर्णिताच्च, श्राद्धस्य= श्रावकस्य वक्ष्यमाणान्वर्थस्य विधि सामाचारी, केनोपदिष्टां ? राजगृहे नगरे समवसृतेन जगद्गुरुणा अर्थाद्वीरजिनेनाभयकुमारपृष्टेन यथा =येन प्रकारेण भणितमुपदिष्टं तथाभूतं किमपि सङ्केपेण साहेमिकथयामीति योग इति प्रथमगाथार्थः ॥१॥
श्राद्धविधौ द्वाराण्याह -
सससससस सस ससस