________________
श्राद्धविधिप्रकरणम्
-: श्राद्धविधिकौमुदी :अर्हत्सिद्धगणीन्द्रवाचकमुनिप्रष्टाः प्रतिष्ठास्पदं, पंचश्रीपरमेष्ठिनः प्रददतां प्रोच्चैर्गरिष्ठात्मताम् । द्वैधान्पञ्च सुपर्वणां शिखरिणः प्रोद्दाममाहात्म्यतश्चेतश्चिन्तितदानतश्च कृतिनां ये स्मारयन्त्यन्वहम् ॥१॥ श्रीवीरं सगणधरं प्रणिपत्य श्रुतगिरं च सुगुरूंश्च । विवृणोमि स्वोपज्ञश्राद्धविधिप्रकरणं किञ्चित् ॥२॥ युगवरतपागणाधिपपूज्यश्रीसोमसुन्दरगुरूणाम् । वचनादधिगततत्त्वः सत्त्वहितार्थं प्रवर्तेऽहम् ॥३॥ तस्य चेयमाद्यगाथा
सिरिवीरजिणं पणमिअ सुआओ साहेमि किमवि सङ्कविहीं । रायगिहे जगगुरुणा जह भणियं अभयपटेणं ॥१॥