________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
गन्तव्यं राजकुले, द्रष्टव्या राजपूजिता लोकाः । यद्यपि न भवन्त्यर्थास्तथाप्यनर्था विलीयन्ते ॥
देशान्तराचारव्यवहारानभिज्ञो हि प्रयोजनवशाद्देशान्तरगतस्तत्रत्यैर्वैदिशिक इति सुखं व्यसनादौ पात्यते । एवं पुत्रवत्पुत्र्यादेः, | पितृवच्च मात्राऽपि, पुत्रस्नुषादेर्यथासम्भवमौचित्यं सत्याप्यम् । विशिष्य च सापत्नस्य । स हि प्रायो न्यूनमानी विमातृदत्त- | मासपेयावान्तिकृतपुत्रवत् ।
सयणाण समुचिअमिणं, जं ते निअगेहवुड्किज्जेसु । सम्माणिज्ज सयावि हु, करिज्ज हाणीसु वि समीवे ॥ पितृमातृपत्नीपक्षोद्भवाः पुंसां स्वजनाः । वृद्धिकार्याणि पुत्रजन्मादीनि । सयमवि तेसिं वसणूसवेसु होअव्व मंतिअम्मि सया। खीणविहवाण रोगाउराण कायव्वमुद्धरणं ॥ वसणि त्ति - आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे स्मशाने च, यस्तिष्ठति स बान्धवः ॥ इति वचनात् ।
स्वजनोद्धरणं हि तत्त्वत आत्मोद्धरणमेव । यतोऽरघट्टघटीनामिव प्राणिनां प्रायोऽनैकान्तिकी रिक्तता पूर्णता च । ततः कदाचिद्दुर्दैवादात्मनोऽप्युपस्थितायां दुरवस्थायामुपकृतचरेभ्यस्तेभ्य एवोद्धृतिः स्याद्, अतः समयं प्राप्य स्वजनोद्धारो विधेय एव ।
खाइज्ज पिट्ठिमंसं, न तेसि कुज्जा न सुक्ककलहं च । तदमित्तेहि मित्ति, न करिज्ज करिज्ज मित्तेहिं ॥
२९८