________________
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
स्त्रियाः सपत्नीकावारकं विलुप्य स्वपति भुञ्जानायास्तुर्यव्रतद्वितीयातिचारस्योक्तवात् । स्खलिते किञ्चिदपराधे निभृतं तथा | शिक्षयति यथा न पुनस्तत्र प्रवर्त्तते । कुपितां चानुनयति, अन्यथा सहसाकारितया कूपपाताद्यमप्यनर्थं कुर्यात्, सोमभट्टभार्यावत् । अत एव स्त्रीषु सर्वकार्येषु सामवृत्तिरेव कार्या न तु क्वापि काठिन्यम् । पाञ्चालः स्त्रीषु मार्दवमित्युक्तत्वादपि । मार्दवसाध्या हि स्त्रियः, तथैव ताभ्यः सर्वत्र सर्वकार्यसिद्धिदर्शनाद्, अन्यथा तु तद्वैपरीत्यस्याऽप्यनुभवात् । निर्गुणस्त्रीयोगे च विशिष्यैवं यतनीयमाजन्मनिबिडनिगडहडिकल्पयापि तयैव हि यथाकथञ्चिद् गृहसूत्रं स्थाप्यं । सर्वोऽपि निर्वाहश्च कर्त्तव्यो, गृहं हि गृहिणी विदुरित्युक्तेः । ‘पयडइ त्ति' प्रकटिते हि धनहानिव्यतिकरे तुच्छतया सर्वत्र तवृत्तं व्यञ्जयन्ती चिराजितं महत्त्वं निर्गमयति । धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्त्तते । गृहमन्त्रप्रचारे चाविष्कृते प्रकृतिकोमलहृदयतया मन्त्रोष्माणं धारयितुमसमर्थतया स्वविश्रम्भस्थानेषु प्रकाश्याऽऽयतिचिन्तितानि कार्याणि विफलयति । कदाचिद्राजद्विष्टमपि सङ्घटयति । तत एव गृहे स्त्रियाः प्राधान्यं न कार्यम् । 'स्त्री पुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम्' इत्याद्युक्तेरपि ।
यथा क्वापि पुरे मन्थरो नाम कोलिको वेमादिकाष्टार्थं शिशपामहावृक्षं तदधिष्टातृव्यन्तरेण निषिद्धोऽपि साहसी तं छिन्दस्तेनोक्तो 'वरं वृणु' । स स्त्रीवश: स्त्री प्रष्टुं गृहं गच्छन् 'राज्यं याचस्वैति' मित्रनापितेनोक्तोऽपि पत्नी प्रपच्छ । तया तुच्छया
प्रवर्द्धमानः पुरुषस्त्रयाणामुपघातकृत् । पूर्वोपार्जितमित्राणां, दाराणामथ वेश्मनाम् ॥
AAAAAAAAAAA
२९४