SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः २९२ विप्रियमाचरति । 'देइ त्ति' देशकालकुटुम्बविभवाद्यौचित्येन अलङ्कृता हि गृहिण्यो गृहमेधिनां श्रियमेधयन्ति । यतःश्रीर्मङ्गलात् प्रभवति, प्रागल्भ्याच्च प्रवर्द्धते । दाक्ष्यात्तु कुरुते मूलं, संयमात् प्रतितिष्ठति ॥ मूलमित्यनुबन्धं, प्रतितिष्टतीति प्रतिष्ठां लभते । 'सम्मद्देसु त्ति' सम्मर्देषु । तत्र ह्यशिष्टजनचेष्टिताश्लीलालापचापलप्रवृत्तिविलोकनान्निसर्गनिर्मलमपि जलदवाताहतं मुकुरतलमिव मनः प्रायो विकरोति । रंभइ रयणिपयारं, कुसीलपासण्डिसंगमवणेइ । गिहकज्जेसु निओअइ, न विओअइ अप्पणा सद्धिं ॥ रजन्यां प्रचारं राजमार्गवेश्मगमनादिकं निरुणद्धि । मुनीनामिव कुलवनितानामपि महते दोषाय ( दोषाप्रचारः) । धर्मावश्यकादिप्रवृत्तिनिमित्तं च जननीभगिन्यादिसुशीलललनावृन्दमध्यगतामनुमन्यत एव । गृहकृत्यानि दानस्वजनसम्मानरसवतीप्रयोगादीनि । यतः शय्योत्पाटनगेहमार्जनपयः पावित्र्यचुल्लीक्रिया, स्थालीक्षालनधान्यपेषणभिदागोदोहतन्मन्थने । पाकस्तत्परिवेषणं समुचितं पात्रादिशौचक्रिया, श्वश्रूभर्तृननान्हदेवृविनयाः कृत्यानि वध्वा इति ॥ तेषु नियमादेनां प्रयुङ्क्ते । अनियुक्ता ह्यसौ सर्वथोदास्ते । उदासीनायां च गृहिण्यां सीदन्त्येव गृहकृत्यानि । निर्व्यापाराच श्राद्धविधि प्रकरणम्
SR No.009625
Book TitleShraddhavidhi Prakaranam
Original Sutra AuthorN/A
AuthorRatnashekharsuri, Vairagyarativijay, Prashamrativijay
PublisherTapagaccha Amar Jain Shala Khambhat
Publication Year1917
Total Pages524
LanguageSanskrit
ClassificationBook_Devnagari, Philosophy, Ritual, & Vidhi
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy