________________
प्रथमः प्रकाशः
२९०
htt
AAAAA
लक्ष्मणेनेवानुसरणीयः । एवं ज्येष्ठकनिष्टपत्नीपुत्राद्यैरपि चिन्त्यम् ।
दंसइ न पुढोभावं, सम्भावं कहइ पुच्छड़ अ तस्स । ववहारम्मि पयट्टइ, न निगूहड़ थेवमवि दविणं ॥
'पयट्टइ त्ति' प्रवर्त्तयति, येनासौ व्यवहारनिष्णातो, न धूर्त्तादिवञ्चनागोचरी स्यात् । ' निगूहइ त्ति' द्रोहबुद्ध्या नापह्नुते क्वचित्सङ्कटे निर्वाहार्थ धनं निधीकरोति एव । कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह
अविणीअं अणुवत्तइ, मित्तेहिं तो रहो उवालभइ । सयणजणाओ सिक्खं, दावड़ अन्नावरसेण ॥
‘सयण त्ति' पितृव्य-मातुल-श्वशुर - तत्पुत्रादिभ्यो दुर्विनीतस्यान्यस्य व्यपदेशेन स्वयं तु तं न तर्जयति । तथा विहिते हि निर्लज्जतया स कदाचिदुन्मर्यादोऽपि स्यात् ।
हिअए ससिणेहो विहु, पयडइ कुविअं च तस्स अप्पाणं । पडिवन्नविणयमग्गं, आलवड़ अ छम्मपिम्मपरो ॥
'अछम्म त्ति' निश्छद्मप्रेमवान् । एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति ज्ञाततत्त्वः सन्नुदास्त एव ।
तप्पणइणिपुत्ताइसु, समदिट्ठी होइ दाणसम्माणे । साववंमि उत्तो, सविसेसं कुणइ सव्वंपि ॥
'समदिट्ठी त्ति' स्वपत्न्यपत्यादिष्विव समदृष्टिः । 'सावक्कंमि त्ति' सापत्नेऽपरमातृके भ्रातरि तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्त्यं जनापवादश्च स्यात् । एवं पितृमातृभ्रातृतुल्येष्वपि यथार्हमौचित्यं चिन्त्यम् । यतः
AAAAAAAAAA
श्राद्धविधिप्रकरणम्