________________
प्रथम:
A
श्राद्धविधिप्रकरणम्
प्रकाशः
'पुरन्ति' पूर्वकाले समुत्कर्षणकाले इत्यर्थः । 'समिइ त्ति' भोगसमुदयसमन्वायुक्तः । 'दलमाणे त्ति' ददानः । इह मिथ्यात्विमहेभ्यस्य वणिक्पुत्रत्वेन महेभ्यीभूतः क्रमात्तं श्रेष्ठिनं दुर्दैवाद् निर्धनं महेभ्यीकृत्य श्राद्धधर्मं प्रतिपादयिता जिनदासश्राद्धो ज्ञातम् २। 'निसम्म त्ति' निशम्य मनसाऽवधार्य । इह निद्रादिप्रमत्तसेलकाचार्यबोधकः पन्थकशिष्यो ज्ञातम् ३।
मातृविषयौचित्यविशेषमाहनवरं से सविसेसं, पयडइ भवाणुवित्तिमप्पडिमं । इत्थीसहावसुलहं, पराभवं वहइ नहु जेण ॥ सविसेसंति जनकान्मातुः पूज्यत्वादपि । यन्मनु:उपाध्याया दशाऽऽचार्य, आचार्याणां शतं पिता । सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ॥ अन्यैरप्युक्तंआस्तन्यपानाज्जननी पशूनामादारलम्भावधि चाधमानाम् । आगेहकृत्यावधि मध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् ।। माता पशूनां सुतसत्तयैव, धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमानां, लोकोत्तमानां चरितैः पवित्रैः ॥ उचिअं एअं तु सहोअरम्मि जं निअइ अप्पसममेअं । जिटुं व कणिटुं पिहु, बहुमन्नइ सव्वकज्जेसु ॥ निअइ त्ति पश्यति । 'जिटुंव त्ति' तिष्ठेत् ज्येष्ठो भ्राता पितृतुल्यस्तमिव, कनिष्ठेन तु वैमातृकेनापि ज्येष्ठः श्रीरामो
२८९