________________
प्रथमः
प्रकाशः
२८७
तदाह-तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना । अनुपासितवृद्धानां प्रज्ञा नातिप्रसीदति ॥ यदेकः स्थविरो वेत्ति, न तत्तरुणकोटयः । यो नृपं लत्तया हन्ति, वृद्धवाक्यात्स पूज्यते ॥
श्रव्यं वाक्यं हि वृद्धानां प्रष्टव्या ये बहुश्रुताः । हंसयूथं वने बद्धं, वृद्धबुद्धया विमोचितं ॥ सद्भावं चित्ताभिप्रायम् । आपुच्छिउं पयट्टइ, करणिज्जेसु निसोहिओ ठाइ । खलिए खरंपि भणिओ, विणीअयं न हु विलंघेइ ॥ सविसेसं परिपूरइ, धम्माणुगए मणोरहे तस्स । एमाइ उचिअकरणं, पिउणो जणणीइ वि तहेव ॥
तस्य पितुरितरानपि मनोरथान् पूरयति, श्रेणिकचिल्लणादेरभयकुमारवत् । धर्मानुगतांस्तु देवपूजा - सद्गुरुपर्युपास्तिधर्मश्रवण- विरतिप्रतिपत्त्यावश्यकप्रवृत्ति-सप्तक्षेत्रीवित्तव्यय-तीर्थयात्रा - दीनानाथोद्धरणादीन् मनोरथान् सविशेषं बह्वादरेणेत्यर्थः । कर्त्तव्यमेव चैतत्सदपत्यानामिहलोकगुरुषु पितृषु । न चार्हद्धर्मसंयोजनमन्तरेणात्यन्तदुष्प्रतिकारेषु तेष्वन्योऽस्त्युपकृतिप्रकारः । तथा च स्थानाङ्गसूत्र
तिण्हं दुप्पडिआरं समणाउसो, तंजहा-अम्मापिउणो, भट्टिस्स, धम्मायरियस्स । संपाठविअ णं केइ पुरिसे अम्मापिअरं सयपागसहस्सपाहिं तिल्लेहिं अब्भंगित्ता सुरभिणा गंधट्टएणं उवट्टित्ता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करित्ता मणुन्नथालीपागसुद्धं अट्ठारसवंजणाउलं भोअणं भोआवित्ता जावज्जीवं पिट्ठवर्डसिआए परिवहिज्जा । तेणावि तस्स अम्मापिउस्स दुप्पडिआरं भवइ । अहे णं सेतं अम्मापिअरं केवलिपन्नत्ते धम्मे आघवत्ता पन्नवइत्ता परूवईत्ता ठावइत्ता भवइ तेणामेव तस्स अम्मापिउस्स सुप्पडिआरं भवइ समणाउसो १। केई महच्चे दरिद्दं
श्राद्धविधिप्रकरणम्