________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
सामन्ने मणुअत्ते, जं केई पाउणंति इह कित्तिं । तं मुणह निव्विअप्पं, उचिताचरणस्स माहप्पं ॥ तं पुण पिइमाइसहोअरेसु पणइणिअवच्चसयणेसु । गुरुजणनायरपरतित्थिएसु पुरिसेण कायव्वं ॥ तत्र पितृविषयं कायवाङ्मनांसि प्रतीत्य त्रिविधमौचित्यं क्रमेणाहपिउणो तणुसुस्सूसं, विणएणं किंकरुव्व कुणइ सयं । वयणंपि से पडिच्छइ, वयणाओ अपडिअं चेव ॥
तनुशुश्रूषां चरणक्षालनसंवाहनोत्थापननिवेशनादिरूपां देशकालसात्म्यौचित्येन भोजनशयनीयवसनाङ्गरागादिसम्पादनरूपां च विनयेन, न तु परोपरोधावज्ञादिभिः, स्वयं करोति, न तु भृत्यादिभ्यः कारयति । यतः
गुरोः पुरो निषण्णस्य, या शोभा जायते सुते । उच्चैः सिंहासनस्थस्य, शतांशेनापि सा कुतः ॥
अपडिअंति वदनादपतितमुच्चार्यमाणमेवादेशः प्रमाणमेष करोमीति सादरं प्रतीच्छति पितृवचनप्रमाणीकरणार्थम् ।। राज्याभिषेकसमये एव वनवासार्थोपस्थितश्रीरामवत् न पुनरनाकर्णित-शिरोधूनन-कालक्षेपार्द्धविधानादिभिरवजानाति ।
चित्तं पिहु अणुअत्तइ, सव्वपयत्तेण सव्वकज्जेसु । उवजीवइ बुद्धिगुणे, निअसब्भावं पयासेइ ॥
स्वबुद्धिविचारितमवश्यविधेयमपि कार्यं तदेवारभते, यत् पितुर्मनोऽनुकूलमिति भावः । बुद्धिगुणान् शुश्रूषादीन् सकललौकिकलोकोत्तरव्यवहारगोचरांश्चोपजीवत्यभ्यस्यति । बहुदृश्वानो हि पितृप्रभृतयः सम्यगाराधिताः प्रकाशयन्त्येव कार्यरहस्यानि ।
२८६
A