________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
मित्ता हसंति निंदति, बंधवा गुरुजणा उविक्खंति । पिअरोपि न बहु मन्नंति, अप्पबहुमाणिणं पुरिसं ॥ परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥ परनिन्दा महापापं, परपापान्यहो यतः । अकर्तृत्वेऽपि लुम्पन्ति, तत्की जरती यथा ॥
सुग्रामे सुन्दरश्रेष्ठी, धर्मी, यात्रिकादीनां भोजनवासस्थानाधुपकारी । तत्प्रातिवेश्मिकी जरद्विप्री तं निन्दति, यात्रिका विदेशे म्रियन्ते, तन्न्यासादिलोभात्तानेष सत्यापयतीति । अन्यदा क्षुत्तृषार्त्तः कार्पटिको गृहेऽभावादाभीर्याः तक्रमानाय्य पायितो मृतः, आभीरीशिर:स्थतक्रभाण्डे शकुनिकाधृताहिमुखपतितगरलेन । विप्री हृष्टोचे, अहो ! धर्मित्वं तदा खे स्थिता हत्या दध्यौ, दाता शुद्धः, सर्पोऽज्ञः परवशश्च, शकुनिका सर्पाशना, आभीर्यज्ञा, तत्कस्य लगामि ? इति ध्यात्वा विप्री विवेश । तया सा श्यामा कुब्जा कुष्ठिनी जज्ञे । इत्यसद्दोषोक्तौ लौकिकज्ञातम् । सद्दोषोक्तौ राज्ञोऽग्रे वैदेशिकानीतत्रिकपालीपरीक्षा पण्डितकृता । यथाएकस्य कर्णे क्षिप्तं सूत्रं मुखे निर्गतं तस्य श्रुतप्रलापिनो मूल्यं काणकपर्दिका । अन्यस्याऽन्यकर्णे निर्गतं तस्य श्रुतविस्मृतस्य लक्षम् । तृतीयस्य गले गतं तस्य हृदि श्रुतस्थितेन मूल्यम् । तथा ऋजूनामुपहासो गुणवत्सु मत्सरः, कृतघ्नत्वं, बहुजनविरुद्धैः सह सङ्गतिः, जनमान्यानामवज्ञा, सदाचाराणां व्यसनोपनिपाते तोषः, शक्तौ तदप्रतीकारः, देशाधुचिताचारलङ्घनं, वित्ताद्यनु4 सारेणात्युद्भटातिमलिनवेषादिकरणम्, एवमादिलोकविरुद्धमिहाप्यपकीर्त्यादिकृत् । यदुवाच वाचकमुख्यः
लोकः खल्वाधारः, सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं, धर्मविरुद्धञ्च सन्त्याज्यम् ॥ प्रशमरति
२८४