________________
प्रथम:
AN
श्राद्धविधिप्रकरणम्
प्रकाशः
कालविरुद्धं त्वेवं शीतौ हिमालयपरिसरेऽत्यन्तशीते, ग्रीष्मर्त्तावन्तजाङ्गले मरुस्थले, वर्षास्वत्यन्तपिच्छलपङ्काकुलेष्वपरदक्षिणसमुद्रपर्यन्तभागेषु, तथातिदुर्भिक्षे, मिथो नृपद्वयविरोधे, धाट्यादिना मार्गरोधे, दुरुत्तारमहारण्ये, यामिनीमुखादिभयवेलायां वा तादृक्सामर्थ्यसहायादिदृढबलं विना प्रस्थानं प्राणधननाशाद्यनर्थकृत् करोति । यद्वा फाल्गुनमासाद्यनन्तरं तिलपीलनतिलव्यववसायतिलभक्षणादि, वर्षासु वा तन्दुलीयकादिपत्रशाकग्रहणादि, बहुजीवाकुलभूमौ शकटखेटनादि वा महादोषहेतुं करोति, तच्च कालविरुद्धम् २। राजादेर्दोषग्रहणं, राज्ञः सम्मतानामसम्माननं, राज्ञोऽसम्मतानां सङ्गतिः, वैरिस्थानेषु लोभाद् गतिः, वैरिस्थानागतैः सह व्यवहारादि, राज्ञः प्रसादे स्वच्छन्देन राजकृत्येष्वपि विधिनिषेधकरणं, नागराणां प्रतिकूलाचरणं, स्वामिद्रोहादि च राज-विरुद्धं । दुस्सहोदकं भुवनभानुकेवलिजीवरोहिण्यादेरिव । सा हि नैष्ठिक्यधीतस्वाध्यायलक्षाऽपि विकथारसान्मुधा राज्या दुःशीलतादिवादिनी रुष्टनृपेण मान्योत्तमश्रेष्ठिपुत्रीत्वादिना जिह्वाच्छेदादिभिः खण्डशोऽकृता (?) देशनिर्वासनादिदुःखिनी नाना | भवेषु जिह्वाच्छेदादि सेहे ३॥
लोकस्याऽनिन्दा, विशिष्य च गुणसमृद्धस्य । इयमात्मोत्कर्षश्च लोकविरुद्धौ । यतःसंतेहिं असंतेहिं अपरस्स किं जंपिएहि दोसेहिं । अत्थो जसो न लंभइ, सोवि अमित्तो कओ होइ ॥ सुट्ठवि उज्जममाणं, पंचेव करिति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥ जइ संति गुणा नणु, अभणिआवि काहिंति अत्तउक्करिसं । अह तेवि न संति मुहा, अत्तुक्करिसेण किं तेण ॥
२८३