________________
प्रथमः
प्रकाशः
अन्नहा अफलं होइ, जं जं किच्चं तु सो करे । ववहारसुद्धिरहिओ अ, धम्मं खिसावए जओ ॥ १६२
श्राद्धविधिधम्मखिसं कुणंताणं, अप्पणो अ परस्स य । अबोही परमा होइ, इअ सुत्ते विभासिअं ॥ १६३
प्रकरणम् तम्हा सव्वपयत्तेणं, तं तं कुज्जा विअक्खणो । जेण धम्मस्स खिसं तु, न करे अबुहो जणो ॥ १६४
लोकेऽप्याहारानुसारेण पिण्डप्रकृतिबन्धो दृश्यते । यथा तुरङ्गमा बाल्ये महिष्याः पीतपयस्काः पयसि पतन्ति । गवां 4 पीतदुग्धाः पानीयात् दूर एव तिष्ठन्ति । तथा मनुष्योऽपि बाल्याद्यवस्थाभुक्ताहारानुसारिप्रकृतिर्जायते । अतो व्यवहारशुद्ध्यै सम्यगुपक्रम्यम् । इति व्यवहारशुद्धिस्वरूपम् ।
तथा देशादिविरूद्धपरित्यागो, देशकालनृपादिविरूद्धवर्जनम् । यदुक्तं हितोपदेशमालायांदेसस्स य कालस्स य, निवस्स लोगस्स तहय धम्मस्स । वज्जतो पडिकूलं, धम्मं सम्मं च लहइ नरो ॥
तत्र सौवीरेषु कृषिकर्म, लाटेषु सुरासन्धानं देशविरुद्धम् । अन्यदपि यद्यत्र देशे शिष्टजनैरनाचीर्णं तत् तत्र देशविरुद्धम् । जातिकुलाद्यपेक्षया वानुचितं देशविरुद्धं, यथा ब्राह्मणस्य सुरापानं तिललवणादिविक्रयश्च । उक्तं हि तत्समयेतिलवल्लघुता तेषां, तिलवच्छ्यामतां पुनः । तिलवच्च निपीड्यन्ते, ये तिलव्यवसायिनः ॥ कुलमपेक्ष्य च चौलुक्यानां मद्यपानं देशविरुद्धम् । अन्यदेशिकानां पुरस्तद्देशनिन्दाविधानादि वा देशविरुद्धम् ।
१4
२८२