________________
|
प्रथम: प्रकाशः
श्राद्धविधिप्रकरणम्
गच्छत्तुरगरक्षकान् रहोदानैविभेद्य कूटप्रपञ्चः कारितः । पुरा हि राजा सूर्यवरप्राप्तं दिव्यतुरगमारोहति तदनु सङ्केतितपुरुषैः, पञ्चशब्दवादनं क्रियते । तुरगो व्योम्नि याति । तमारूढो नृपो वैरिणो हन्ति । सङ्ग्रामसमाप्तौ तुरगः सूर्यमण्डलं प्रविशति । तदा च रङ्कभेदितपञ्चशब्दवादकै राज्ञस्तुरगारोहणात्पूर्वमेव पञ्चशब्दनादः कृतः । तुरगः समुड्डीय गतः । शिलादित्यनृपः किंकर्तव्यतामूढस्तैर्निजघ्ने । तदनु सुखेन वलभीभङ्गः सूत्रितः । उक्तञ्च
पणसयरीवासायं तिभि सयाहिं अइक्कमेऊणं । विक्कमकालाउ तओ, वलहीभंगो समुष्पन्नो ॥
मुद्गला अपि निर्जले पातयित्वा मारिताः । इति रङ्कश्रेष्ठिसम्बन्धः । एवमन्यायवित्तविलसितं ज्ञात्वा न्यायेनार्थार्जने यतनीयम् । यतः
विहाराहारव्याहारव्यवहारास्तपस्विनाम् । गृहिणां तु व्यवहार, एव शुद्धो विलोक्यते ॥ व्यवहारशुद्ध्यैव च सर्वोऽपि धर्मः सकलः । यद्दिनकृत्यकृत्ववहारसुद्धि धम्मस्स, मूलं सव्वन्नु भासए । ववहारेणं तु सुद्धेणं, अत्थसुद्धी जओ भवे ॥ १५९ सुद्धेणं चेव अत्थेणमाहारो होइ सुद्धओ । आहारेणं तु सुद्धेणं, देहसुद्धो जओ भवे ॥ १६० ।। सुद्धेणं चेव देहेणं, धम्मजुग्गो अ जायई । जं जं कुणइ किच्चं तु, तं तं से सफलं भवे ॥ १६१
२८१