________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
A
AAAAAAAAAA
अत्रार्बुदोपरि चैत्यकारमन्त्रीविमलादयो दृष्टान्ताः प्रतीताः । महारम्भाद्यनुचितवृत्तिसञ्चितं हि द्रव्यं सुक्षेत्रवापादि विना | दुष्कीर्तिदुर्गतिफलमेवमम्मणश्रेष्ठ्यादिवत् ॥ अन्यायार्जितार्थकुपात्रपोषरूपश्चतुर्थ इह साधुजनगर्हित्वत् परत्र कुगतिनिबन्धनत्वाच्च त्याज्य एव विवेकिनाम् । यतः
अन्यायोपात्तवित्तस्य, दानमत्यन्तदोषकृत् । धेनुं निहत्य तन्मांसैर्ध्वाङ्क्षाणामिव तर्पणम् ॥ अन्यायोपार्जितैर्वित्तैर्यत् श्राद्धं क्रियते जनैः । तृप्यन्ते तेन चाण्डाला, बक्कसा दासयोनयः ॥ दत्तः स्वल्पोऽपि भद्राय, स्यादर्थो न्यायसङ्गतः । अन्यायात्तः पुनर्दत्तः, पुष्कलोऽपि फलोज्झितः ॥ अन्यायोपात्तवित्तेन, यो हितं हि समीहते । भक्षणात्कालकूटस्य, सोऽभिवाञ्छति जीवितम् ॥ इह चान्यायार्थोपजीविनो गृहस्थादेः प्रायेणाऽन्यायकलहाऽहङ्कारपापबुद्धिप्रवृत्तिरेव रङ्कश्रेष्ठ्यादिवत् । यथा
मरुस्थल्यां पल्लीग्रामे काकुयाक-पाताको भ्रातरौ, तयोः कनीयान् धनी, ज्यायांस्तु नि:स्वत्वेन तद्गृहे भृत्यवृत्त्या निर्वहते। एकदा वर्षारात्रौ दिवसकर्मपरिश्रान्तः काकुयाको रात्रौ प्रसुप्तः पाताकेनाभिदधे-भ्रातः ! स्वकेदाराः पय:पूरैः स्फुटितसेतवः, तव
तु निश्चिन्तता इत्युपालब्धः स तदा त्यक्तस्रस्तरः स्वं दरिद्रं परगृहकर्मकारिणं निन्दन् कुद्दालं लात्वा यावत्तत्र याति, तावत् 22 कर्मकरान् स्फुटितसेतुबन्धरचनापरान् दृष्ट्वा के यूयं ? इति पृष्टाः भवद्भातुः कर्मकराः इति तैरुक्ते, क्वापि मदीयास्ते |
२७९