________________
प्रथमः
प्रकाशः
२७८
विसृष्टाः । षण्मास्यादिना तत्सर्वं क्षीणं तेषाम् । ते त्वष्टौ द्रम्माः पात्रद्विजेन भोजनवेषप्रमुखकार्येषु व्यापार्यमाणा अपि | | न्यायार्जितत्वेन नाक्षीयन्त । चिरेणाप्यक्षयनिधिवत् सुबीजवच्च श्रियो वृद्धयै जज्ञिरे । इति न्यायार्जितवित्ते सोमनृपप्रबन्धः ।
इह न्यायार्जितवित्तसत्पात्रविनियोगाभ्यां चतुर्भङ्गी । तत्र न्यायागतविभवसत्पात्रविनियोगरूपः प्रथमो भङ्गोऽक्षेपेण पुण्यानुबन्धिपुण्यहेतुत्वात्सुदेवत्व-भोगभूमिमनुष्यसम्यक्त्वादिप्राप्त्या आसन्नसिद्धिफलो धनसार्थवाहशालिभद्रादिवत् १। न्यायागतद्रव्ययत्तत्पात्र पोषरूपो द्वितीयो भङ्गः, पापानुबन्धिपुण्यहेतुत्वाद्यत्र तत्र भवेषु भोगमात्रफलोऽपि प्रान्ते विरसफल एव, यथा लक्ष्यभोज्यकृद् विप्रो बहुभवेषु किश्चिद्भोगादिसुखानि भुक्त्वा सेचनकनामा सर्वाङ्गसुलक्षणो भद्रहस्ती जातो, लक्षभोज्योद्धरितान्नादिसुपात्रदानदायिनि:स्वद्विजजीवं सौधर्मे सुरीभूय च्युतं श्रेणिकसुतं राजकन्यापञ्चशतीपरिणेतारं नन्दिषेणकुमारं दृष्ट्वा जातजातिस्मृतिरपि प्रथमनरकगामी २। अन्यायायातविभव-सत्पात्रपरिपोषरूपस्तृतीयः, सुक्षेत्रोप्तसामान्यबीज - फलप्ररोहवदायतौ सुखप्रसवानुबन्धितया राज्ञां व्यापारिणां बह्वारम्भोपार्जितद्रव्याणां चानुज्ञातः । यतः—
काशयष्टिरिवैषा श्रीरसारा विरसाऽप्यहो । नीतेक्षुसमतां धन्यैः सप्तक्षेत्रीनिवेशनात् ॥
खलोऽपि गवि दुग्धं स्याद् दुग्धमप्युरगे विषम् । पात्रापात्रविशेषेण, तत्पात्रे दानमुत्तमम् ॥ सा साइ तं पि जलं, पत्तविसेसेण अंतरं गुरुअं । अहिमुहपडिअं गरलं, सिप्पउडे मुत्तअं होइ ॥
श्राद्धविधिप्रकरणम्