________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAA
सर्वं मुषितं । प्रभाते तद्वस्तुग्राहकैरतिप्रभूतैरागतैर्देवस्य द्विगुणमूल्यादिनाऽतिलाभो जातः । ततो द्वितीयोऽपि सुश्रावकीभूय | व्यवहारशुद्ध्या धनार्जनात् सुखी जज्ञे । इति न्यायान्यायधनार्जने मित्रद्वयवृत्तम् ।
अत्रैव लौकिकं ज्ञातं यथा-चम्पायां सोमः मापतिः, सूर्यपर्वणि दानार्थं शुभं द्रव्यं योग्यं च पात्रं मन्त्रिपार्वे प्रपच्छ । मन्त्र्याह, पात्रमेकोऽत्र विप्रोऽस्ति परं शुभद्रव्यं दुर्लभं, विशिष्य च राज्ञः यत:
दातुर्विशुद्धवित्तस्य, गुणयुक्तस्य चार्थिनः । दुर्लभः खलु संयोगः, सुबीजक्षेत्रयोरिव ॥
ततो नृपः पर्वोपरि पात्रदानायाष्टदिनै रात्रौ नष्टचर्यया वणिजां हट्टेषु वणिक्पुत्रार्ह कर्म निर्माय तन्मूल्येऽष्टौ द्रम्मानर्जयामास ।। पर्वणि च सर्वान् द्विजानाकार्य पात्रविप्राऽऽकारणाय प्रधानं प्रेषीत् । तेन गत्वा स आकारितः । प्रत्याह
यो राज्ञः प्रतिगृह्णाति, ब्राह्मणो लोभमोहितः । तमिस्रादिषु घोरेषु, नरकेषु स पच्यते ॥ राज्ञः प्रतिग्रहो घोरो, मधुमिश्रविषोपमः । पुत्रमासं वरं भुक्तं, न तु राज्ञः प्रतिग्रहः ॥ दशशूनासमश्चक्री, दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥
इति पुराणस्मृत्यादिवचनाद् दुष्टं राजप्रतिग्रहं न गृह्णामि । प्रधानेनोक्तं, राजा न्यायेन स्वभुजार्जितं सद्वित्तमेव दास्यति, तद्ग्रहणे तव न कश्चिद्दोषः इत्याधुक्त्या प्रबोध्य तं राज्ञोऽन्तिकमानयत् । राज्ञा हृष्टेन स्वासनढौकनपादधावनादिबहुविनयेन तेऽष्टौ द्रम्मास्तन्मुष्ठिमध्येऽक्षिप्यन्त । अस्मै किञ्चित्सारमर्पितम् इति किञ्चित्सरुषोऽप्यन्ये विप्रा हेमादिदानतः समतोष्यन्त । सर्वे च
AAAAAAAAAAAA
२७७