________________
श्राद्धविधि
प्रथम: प्रकाशः
प्रकरणम्
त्वत्पुण्यैरहं सुस्थिरीभूता इति लक्ष्म्योक्ते व्रतभङ्गभिया पुरं त्यक्त्वा बहि:स्थोऽपुत्रनृपमृतेरधिवासितगजेनाभिषिक्तो दिव्यगिरा 'निजं राजानं कृत्वा राज्यं निर्वाह्य पञ्चमभवे सिद्धः । एवं चार्थोपार्जननमशङ्कनीयत्व-प्रशंसनीयत्व-हान्यविषयत्व-सुखसमाधि4 वृद्धिहेतुत्व-पुण्यकार्योपयोगित्वादिनेहलोकपरलोकहितं । पठितञ्च
सर्वत्र शुचयो धीराः, स्वकर्मबलगर्विताः । कुकर्मनिहतात्मानः, पापाः सर्वत्र शङ्किताः ॥
अत्र ज्ञातम् । यथा-देव-यशोनामानौ द्वौ वणिजौ मिथः प्रीत्या सह व्यवहरन्तौ क्वापि पुरे मार्गे मणिकुण्डलं पतितं ददृशतुः । आद्यः सुश्रावकत्वाद् दृढव्रतः परद्रव्यं सर्वथाऽनर्थभूतं मन्वानः पश्चादेव निवृत्तः । द्वितीयोऽपि सह निवृत्तः परं न पतितग्रहणेऽधिकदोषः इति ध्यात्वा वृद्धस्य दृष्टिं वञ्चयित्वा तज्जगृहे । दध्यौ च, धन्योऽयं यस्येदृशी नि:स्पृहता । परं मित्रत्वात् संविभागिनं करिष्याम्येनं सुयुक्त्या इति । तद् गुप्तीकृत्याऽन्यत्र पुरे गत्वा तेन कुण्डलेन प्रभूतभाण्डमाददे । कमात्स्वस्थानमागतौ तौ । आनीतभाण्डविभजनेऽतिप्रभूतं भाण्डं दृष्ट्वा देवेन निर्बन्धात् पृष्टः स यथावदाचष्ट । देवेनोक्तम्, अन्यायार्जितमिदं सर्वथा न ग्रहणार्हम् । अनेन न्यायाजितस्वधनस्याप्यवश्यं विनाशः स्यात्, काञ्जिकेनेव दुग्धस्य इत्युक्त्वा तत्सर्वं पृथक् कृत्य तस्मै दत्तं । एवमागतं वित्तं कथं त्यज्यते ? इति लोभात् सर्व स्वं भाण्डशालायां गृहीत्वा गतः । रात्रौ च चौरैः
१. जिनं इति को० ह० प्र० पाठः ।
२७६