________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
AAAAAAAAAAAAAAAAAAAAAAAAA
धम्मो अत्थो कामो, पुरिसत्था वन्निया तओ लोए । तिण्हपि जहावसरं, सेवा संसिज्जइ बुहेहिं ॥
तत्र धर्मार्थयोरुपघातेन तादात्विकविषयसुखलुब्धो वनगज इव को नाम न भवत्यास्पदमापदाम् । न च तस्य धनं धर्मः शरीरं वा यस्य कामेऽत्यन्तासक्तिः । धर्मकामातिक्रमाद्धनमुपार्जितं परेऽनुभवन्ति, स्वयं तु परं पापस्य भाजनं सिंह इव सिन्धुरवधात् । अर्थकामातिक्रमेण च धर्मसेवा यतीनामेव धर्मो न गृहस्थानाम् । न च धर्मबाधयाऽर्थकामौ सेवेत, यतो बीजभोजिनः कुटुम्बिन इव नास्त्यधार्मिकस्यायत्यां किमपि कल्याणम् । उक्तञ्च सोमनीतावपि____ स खलु सुखी योऽमुत्रसुखाविरोधेनेहलोकसुखमनुभवतीति ।
एवमर्थबाधया धर्मकामौ सेवमानस्य ऋणाधिकत्वं, कामबाधया धर्मार्थो सेवमानस्य गार्हस्थ्यसुखाद्यभावः स्यात् । एवं तादात्विक-मूलहर-कदर्येषु धर्मार्थकामानामन्योन्यबाधा सुलभैव । तथाहि-य: किमप्यसञ्चिन्त्योत्पन्नमर्थमपव्येति स तादात्विकः १॥ यः पितृपैतामहमर्थमन्यायेन भक्षयति स मूलहरः २। यो भृत्यात्मपीडाभ्यामर्थं सञ्चिनोति, न च क्वचिदपि व्ययते स कदर्यः ३। तत्र तादात्विकमूलहरयोरर्थभ्रंशेन धर्मकामयोविनाशान्नास्ति कल्याणम् । कदर्यस्य त्वर्थसङ्ग्रहो राजदायादभूमितस्कारादीनां निधिः, न तु धर्मकामयोर्हेतुः । यतः
दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमिभुजो, गृह्णन्तिच्छलमाकलय्य हुतभुग भस्मीकरोति क्षणात् । अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठात्, दुर्वृत्तास्तनया नयन्ति निधनं धिग् बह्वधीनं धनम् ॥
AAAAAA
२७३