________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
न च स्वल्पसम्पदैव तदुद्यमान्निवर्त्तते । यन्माधःसंपदा सुस्थितम्मान्यो, भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये, न वर्द्धयति तस्य ताम् ॥ नाप्यतितृष्णां कुर्यात् । यल्लोकेऽप्युक्तंअतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतात्मा, सगरः सागरं गतः ॥
न च यावदित्थं कस्यापि प्राप्तिसम्भवो, नहि रङ्कश्चक्रित्वाद्युच्चैरभिलषन् अपि कदाप्याप्नोति । भोजनाच्छादनादि तु | प्राप्नोत्यपि । तदवादिष्म
स्वानुमित्या मितीकुर्यादिच्छामिच्छाफलार्थिकः । लोकेऽपि लभ्येत मितं, मार्गितं नाऽमितं क्वचित् ॥
ततः स्वभाग्याद्यनुसारेणैवेच्छां कुर्याद्, अधिकाधिकेच्छायां तु तदलाभात्तदाऽतिदुःखितैव स्यात् । कोटीपूरणार्थबहुक्लेशसासहिनवनवतिटङ्कलक्षाधिपधनश्रेष्ठ्यादिवत् । आख्यातं च
आकाङ्क्षितानि जन्तूनां, सम्पद्यन्ते यथा यथा । तथा तथा विशेषाप्तौ, मनो भवति दुःखितम् ॥ आशादासस्तु यो जातो, दासस्त्रिभुवनस्य सः । आशा दासीकृता येन, तस्य दास्ये जगत्त्रयी ॥ गृहस्थेन चान्योन्याप्रतिबन्धेन त्रिवर्गोऽपि साध्यः । यतः
२७२