________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
वसन्तपुरे चत्वारो मित्राणि क्षत्रिय-ब्राह्मण-वणिक्-स्वर्णकाराः । देशान्तरेऽर्थार्थं गताः । रात्रावुद्याने स्थिताः । तत्र शाखायां | लम्बमानं स्वर्णपुरुषं ददृशुः । एकेनोक्तम्, अर्थः । स्वर्णपुरुषेणोक्तम्, अर्थः पुनरनर्थप्रदः । तत् श्रुत्वा सर्वैर्भीत्या त्यक्तः । 4 स्वर्णकारेणोक्तं पत, पश्चात्पतितः । तेनाङ्गलिं कर्त्तयित्वा गतयां क्षिप्तः सर्वैरपि दृष्टः । तेषां मध्ये द्वयं भोजनानयनाय |
पुरान्तर्गतम् । द्वयं तु बहि: स्थितं । मध्यगतद्वयेन बहिःस्थतन्मारणाय विषान्नमानीतम् । बहि:स्थितेन मध्यादागच्छद्वयं खड्गेन हत्वा विषान्नं भुक्तम् । सर्वे मृताः एषा पापद्धिः ।
अतो देवपूजाऽन्नदानादिकैः प्रत्यहं पुण्यैः सङ्घपूजासाधर्मिकवात्सल्यादिकैरवसरपुण्यैश्च निद्धि: पुण्योपयोगिनी कार्या । यद्यप्यवसरपुण्यानि बहुव्ययसाध्यत्वेन महान्ति, प्रत्यहं पुण्यानि च लघूनि तथापि प्रत्यहं पुण्येषु निरन्तरं भवत्सु भूयस्तरं फलं, तत्पूर्वकमेवावसरपुण्यकरणस्यौचित्यात् । न च धनस्तोकत्वादिना धर्मकार्यविलम्बादि कार्यम् । यदुवाच
देयं स्तोकादपि स्तोकं, न व्यपेक्ष्यो महोदयः । इच्छानुसारिणी शक्तिः, कदा कस्य भविष्यति ॥ श्वःकार्यमद्य कुर्वीत, पूर्वाह्ने चापराह्निकम् । न हि मृत्युः प्रतीक्षेत, कृतं चास्य न वा कृतम् ॥ अर्थार्जनार्थमपि यथार्ह प्रत्यहं प्रयतते । यतःवणिग् वेश्या कविर्भट्टस्तस्करः कितवो द्विजः । यत्रोऽपूर्वार्थलाभो न, मन्यते तदहर्वृथा ॥
ससस ससससससससस ससस
२७१