________________
प्रथम:
श्राद्धविधिप्रकरणम्
प्रकाशः
देशान्तरगतश्च विशिष्य यथार्हाऽऽडम्बरसर्वाङ्गीणधर्मनिष्ठो भूयात्, तथैव महत्त्वबहुमानविलोक्यमानकार्यसिद्ध्यादिसम्भवात् ।। विदेशे च बहुबहुलाभाप्तावपि नातिबहु तिष्ठेद् बहुस्थितौ गृहसूत्रवैसंस्थूल्यादिदोषापत्तेः, काष्ठश्रेष्ठ्यादेरिव । समुदितक्रयविक्रयादिप्रारम्भे चाविघ्नेनाभिमतलाभादिकार्यसिद्ध्यर्थं पञ्चपरमेष्ठिस्मरणश्रीगौतमादिनामग्रहणकियत्तद्वस्तुश्रीदेवगुर्वाधुपयोगित्वकरणादि कर्त्तव्यं, धर्मप्राधान्येनैव सर्वत्र साफल्यभावात् । धनार्जनार्थमुपक्रमं कुर्वाणेन च सप्तक्षेत्रीव्ययादिधर्ममनोरथा निरन्तरं महान्त एव कर्त्तव्याः । ऊचुश्च
उच्चैर्मनोरथाः कार्याः, सर्वदैव मनस्विना । विधिस्तदनुमानेन, संपदे यतते यतः ॥ यत्नः कामार्थयशसां, कृतोऽपि विफलो भवेत् । धर्मकर्मसमारम्भसङ्कल्पोऽपि न निष्फलः ॥ लाभसम्भवे च तदनुरूपं तान् मनोरथान् सफलीकुर्यात् । यतःववसायफलं विहवो, विहवस्स फलं सुपत्तविणिओगो । तयभावे ववसाओ, विहवोवि अ दुग्गइनिमित्तं ॥ एवञ्च निजऋद्धर्धर्मद्धित्वं स्यादन्यथा तु पापद्धित्वम् । उक्तञ्चधम्मिड्ढी भोगिड्डी, पाविड्डी इअ तिहा भवे इड्डी । सा भन्नइ धम्मिढी, जा दिज्जइ धम्मकज्जेसु ॥ सा भोगिढ्ढी गिज्जइ, सरीरभोगम्मि जीइ उवओगो । जा दाणभोगरहिआ, सा पाविड्डी अणत्थफला ॥ पाविढ्ढी पाविज्जइ, फलेण पावस्स पुव्वविहिअस्स । पावेण भाविणा वा, इत्थत्थे सुणह दिटुंतं ॥
२७०