________________
प्रथमः
श्राद्धविधिप्रकरणम्
प्रकाशः
मृत्युः शरीरगोप्तारं, रक्षितारं धनं धरा । दुश्चारिणीव हसति, स्वपति पुत्रवत्सलम् ॥ कीटकासञ्चितं धान्यं मक्षिकासञ्चितं मधु । कृपणोपार्जिता लक्ष्मीः परेवोपभुज्यते ॥
अतस्त्रिवर्गस्य बाधा गृहस्थस्य कर्तुमनुचिता, यदा तु दैववशाद्भवति, तदोत्तरोत्तरबाधायां पूर्वपूर्वबाधा रक्षणीया । तत्र कामबाधायां धर्मार्थयोर्बाधा रक्षणीया, तयोः सतो: कामस्य सुकरोत्पादत्वात् । कामार्थयोर्बाधायां धर्मो रक्षणीयो धर्ममूलत्वादर्थकामयोः । उक्तञ्च
धर्मश्चेन्नावसीदेत, कपालेनापि जीवतः । आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः ॥ त्रिवर्गसंसाधनमन्तरेण, पशोरिवायुर्विफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति, न तं विना यद्भवतोऽर्थकामौ ॥
आयोचितश्च व्ययः । यन्नीतिशास्त्रम्पादमायान्निधिं कुर्यात् पादं वित्ताय कल्पयेत् । धर्मोपभोगयोः पादं, पादं भर्त्तव्यपोषणे ॥ केचित्त्वाहुःआयादर्द्व नियुञ्जीत, धर्मे समधिकं ततः । शेषेण शेषं कुर्वीत, यत्नतस्तुच्छमैहिकम् ॥ निर्द्रव्यसव्व्ययोरयं विभाग इत्यप्येके । तथाजी कस्स न इ8, कस्स य लच्छी न वल्लहा होइ । अवसरपत्ताई पुणो दुन्नवि तणयाउ लहुअंति ॥
२७४