________________
प्रथमः
प्रकाशः
२६७
7777
जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारत ! । दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥
अन्यथा च निर्वोढुमशक्तो यदि देशान्तरे व्यवहारं कुर्यात्तथापि न स्वयं नापि पुत्रादिभिः, किन्तु सुपरीक्षितवणिक्| पुत्रादिभिः । जातु स्वयमेव देशान्तरे यायात्, तदापि सुमुहूर्त्तशकुननिमित्तदेवगुरुवन्दनादिमाङ्गल्यविधिना बहुभाग्यवत्सार्थ| मध्यवर्ती निद्रादिप्रमादवर्जी कियद्भिः स्वकीयज्ञातीयसुपरिचितादिभिः सहैव सुयनेनैव व्रजेद् व्यवहरेत्तिष्ठेच्च । भ | चैकेनापि सार्थस्य विघ्नं टलति । यथैकविंशतिः पुरुषाः वर्षासु ग्रामान्तरे यान्तः सायं देवकुले स्थितास्तदा विद्युद् द्वारमागत्यागत्य याति तैश्च भीत्योक्तं, कोऽप्यात्मसु निर्भाग्योऽस्ति इत्येकैको देवकुलात् परितो भ्रान्त्वा आया तथा कृत्व | विंशतिः प्रविष्टाः । एकविंशे बलाद्बहिः कृष्टे विंशतेर्मूमि विद्युत्पपात । तेष्वेक एव भाग्यवांस्ततो भाग्यवत्सार्थो ग्राह्यः । | लभ्यदेयनिध्यादि च सर्वं पितृभ्रातृपुत्रादीनां च सर्वदापि ज्ञापयेत्, विशिष्य च प्रस्थानावसरे, अन्यथा दुर्दैवात्तस्यायुः समाप्तौ सत्यपि विभवे पित्रादीनां मुधा दारिद्यादिदुःखं कृतं स्यात्, स्वकीयांश्च सर्वानपि यथार्हचिन्ताकरणशिक्षाप्रदानपूर्वं सबहुमानं सम्भाष्यैव प्रतिष्ठते । उक्तञ्च–
अवमन्य माननीयान्निर्भर्त्स्य स्त्रीं च कमपि सन्ताड्य । बालमपि रोदयित्वा जिजीविषुर्नैव निर्गच्छेत् ॥ आसन्नं च विशेषपर्वोत्सवादि कृत्वा व्रजति । यतः
उत्सवमशनं स्नानं प्रगुणं चोपेक्ष्य मङ्गलमशेषम् । असमापिते च सूतकयुगेऽङ्गनत्तौ च नो यायात् ॥
श्राद्धविधिप्रकरणम्